________________
परशुरामकल्पसूत्रम्
तन्त्रान्तरोपसंहारविचारः एवमग्रे अमुकगोत्रो अमुकशाखाऽध्यायी अमुकशर्मादिरहं चतुर्विधपुरुषार्थसिद्धयर्थं स्वेष्टानुग्रहाय अमुकगोत्रं अमुकशाखाऽध्यायिनं अमुकशर्माणं त्वां गुरुत्वेन वृणे इति संकल्पः किं कल्पसूत्रानुसारेण
बह्वल्पं वा स्वगृह्योक्तं यम्य यावत् प्रकीर्तितम् ।
तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥ इतिवचनमनुसृत्य तन्त्रान्तरानुपसंहारेण अयं प्रयोगः, किं सर्वतन्त्रमुपसंहृत्य, किं स्वेच्छया । नाद्यः, सूत्रे वरणस्य अनुक्तत्वात् । द्वितीय तन्त्रान्तरे प्रतिमाब्रह्मादिवरणचरुनिर्माणतद्भक्षणादित्यागोऽनुचितः । तृतीयश्च स्वकपोलकल्पितोऽश्रद्धेय एव । किंच तन्त्रान्तरे
कर्तु कारयितुं चैव दीक्षाकर्म महेश्वरि ।
आचार्यत्वेन त्वां वृणे इति पादसमीपतः ॥ इति वरणे करिष्यमाणेऽपि दीक्षाकर्मणि आचार्य वृणे इत्येव वक्तव्यमिति वदति । सर्वत्र श्रौते स्मार्ते च ऋत्विग्वरणे-" अस्मिन्नग्न्याधानेऽध्वर्यु त्वां वृणे", " अम्मिन्नद्यापनाख्ये कर्मणि आचार्य त्वामहं वृणे", इत्याचारो दृश्यते । इह तु कर्मनाम त्यक्त्वा फलवाचकं पुरुषार्थसिद्धयर्थ अनुग्रहार्थ चेति वरणवाक्ये लिखितम् । तदतीव चित्रम् । तस्मात् सूत्रानुसारिभिः वरणं न कार्यम् । न च वरणाभावे गुरुणा अवृतेन कर्म कथं कार्य इति वाच्यम् ; त्वं मम दीक्षां कुरु इति लौकिकवरणेनापि तत्संभवात् । न हि वयं सर्वथा निराकुर्मो वरणं, कर्माङ्गमित्येव ब्रूमः ॥
एवमेव पुण्याहवाचननान्दीश्राद्धे न कार्ये, अनुक्तत्वात् । न च तन्त्रान्तरोपसंहारो मा भवतु, तथाऽपि स्मृतिप्राप्तं पुण्याहवाचनं नान्दीश्राद्धं च अनिवार्यम् , अन्यथा-"क्षुते आचामेत्' इति प्राप्ताचमनमपि न स्यात् इति वाच्यम् ; यदि पुण्याहवाचननान्दीश्राद्धे तान्त्रिके स्मृतिप्राप्ते एवानुवर्तेते, तर्हि तन्त्रान्तरे
गणेशं पूज्य पुण्याहं वाच्य नान्दीमुखान् यजेत् ।