________________
प्रथमः खण्डः -- दीक्षाविधिः
--
तल्लब्धं पृथक् संस्थाप्य तच्छेषं नवभिर्विगुण्य तत्र गतवारसंख्यां योजयेत् । एवं सति सा संख्या गतदिवसस्य ज्ञेया । पूर्वस्थापितलब्धे षोडशभिर्भक्ते शेषो गतमास संख्या भवति । तल्लब्धे षट्त्रिंशता विभक्ते शेषो गतवत्सरसंख्या । तल्लब्धं पञ्चाशद्युतं षट्त्रिंशद्भक्तं शेषं गतपरिवृत्तिसंख्या । लब्धं गतयुगसंख्या । एवं मेषसंक्रान्तिकालीनाहर्गणे साधिते तदुत्तरं मध्ये यदाकदाचिदहर्गणसाधनेच्छायां तदुपाय उच्यते । तत्र मेषमारंभ्य यस्मिन् दिने अहर्गणनेच्छा तदव्यवहितपूर्वं संक्रान्तिः या तदीयां वक्ष्यमाणां संख्यां अहर्गण योजयित्वा तत्संक्रान्तिमारभ्य इष्टदिनपर्यन्तमतिक्रान्ता यावन्तो दिवसाः तावत्संख्यां योजयेत् । इष्टदिनाहर्गणं भवति । तत्र - वृष, मिथुने, कर्के, सिंहे, कन्यायां, तुलायां, वृश्चिके, धनुषि मकरे, कुंभ, मीने । इतः परं युगादिघटिकान्तानां नामोच्यते । युगपरिवृत्तिवर्षाणां षट्त्रिंशतां क्रमेण आदिक्षान्तानां वर्णानां नामानि यथा प्रथमं अकारात्मकयुगं अयुगं कयुगं द्वितीयं एवमग्रेऽपि परिवृत्तिवर्षेषु ज्ञेयम् । मासानां षोडशानां क्रमेण षोडशस्वराः नामानि । षट्त्रिंशद्दिवसेषु युगपत् षट्त्रिंशदकारादिक्षकारान्ताः वर्णाः सानुस्वारा: शिवाद्यवनिपर्यन्तं षट्त्रिंशत्तत्त्वानि च मिलित्वा क्रमेण नामानि । यथा- - अं शिवतत्त्वदिवस इति । चरम स्वररहिता अकाराद्यनुस्वारान्ताः अनुलोमविलोमेन त्रिंशद्वर्णाः । कामेश्वर्यादिचित्रान्ताः पञ्चदश नित्याः अनुलोमविलोमाश्च मिलित्वा त्रिंशत् । नित्यानाम यथा- -अं कामेश्वरीनित्यायामिति । वाराणां नवानां क्रमेण अकचटतपयशषाः इति वर्णाः नव । प्रकाशानन्दनाथ-विमर्शानन्दनाथ-आनन्दानन्दनाथ-ज्ञानानन्दनाथसत्यानन्दनाथ- पूर्णानन्दनाथ - स्वभावानन्दनाथ प्रतिभानन्दनाथ - सुभगानन्दनाथेति नवनाथाः । वारवर्णा ये नव तद्युक्तनवनाथाः क्रमेण नववाराः । यथा- -अं प्रकाशानन्दनाथवासर इति । उदयघटिकानां पञ्चानां नाम क्रमेण- - अपचतय इति पञ्च वर्णाः ज्ञेयाः । एवमष्टाङ्गोल्लेखः तान्त्रिककर्मादावावश्यकः । देशस्य तन्त्रे अनुक्तत्वात् स्मार्तस्यैवोल्लेखः ॥
केचित्तु तान्त्रिकोऽष्टाङ्गो न सहज इति शास्त्रप्रसिद्धकालस्य समुच्चयमिच्छन्ति " देशकालौ समुल्लिख्य चाष्टाङ्गस्थितिरेव च " इति परमानन्दतन्त्रानुसारेण । तन्न ; देशकालावित्यत्र कालः कीदृशः इत्याकांक्षापूरकं तन्त्रस्थाष्टाङ्गपदं, न तु समुच्चयविधायकं, एवकारस्वारस्यात् ॥
3
!