________________
परशुरामकल्पसूत्रम् . नर्मदोत्तरभागेऽथ तस्या दक्षिणभागके। अङ्कवेद ४८ युतः कार्य इभाक्षिः षष्टिभिर्हतः ॥ प्रभवादिगताब्दानां संख्यया योजयेत् पुनः । वर्तमाना शालिवाहशकसंख्या समीरिता ॥ प्रभवाद्यक्षयान्तानां भवेत् परिवृतिस्तु या ।
वर्तमाना तदीययं संख्याऽष्टाविंशतिः स्मृता ॥ इतः परिवृतिसंख्यां दृष्टा च तां गुणेत् । षष्टिभिस्तु शके ज्ञाते न यतेदीदृशश्रीमें वर्तमानशालिवाहनशकसंख्या नन्दाद्रिक्ष्माग्नि-३१७९-संयुक्ता गतकल्यब्दगणः यथा शके १७५५ अस्मिन् ३१७९ एतद्योगे गतकल्यब्दगण:--४९३४ । एवंगतकल्यब्दगणं साधयित्वा तस्मात् अहर्गणसिद्धयर्थ उपायः क्रियते । गतकल्यब्दगणे नगनवेभवेदैः-४८९७ ऊनिते शिप्यते योऽङ्कः एकादिदशान्तः तत्संख्याकं अङ्कजालं ध्रुवकाङ्कजाले विघट्यादिदिनान्ते योजयेत् । एकादशशेषे प्रथमदशमाङ्कजालद्वयं ध्रुवके योजयेत् । एकविंशतिशेषे प्रथमं विशं च ध्रुवके योजयेत् । एवमेकत्रिंशतमारभ्य एकोनषष्टिपर्यन्तं ज्ञेयम् । तद्रहस्यमित्थम्-नगनवेभवेदैरूनिते कल्यब्दगणे यः शेषः तस्मिन् षष्टया भक्ते शेषाकैः लेखनसमये यदि द्वौ तर्हि तत्समसंख्याकं अङ्कजालं ध्रुवके योजयित्वा विघटिकादिषष्ट्या भक्तं लब्धमुपर्युपरि योजयेत् । स च तद्वर्षसंबन्धिमेषसंक्रान्त्यहर्गणः । एवंगतकल्यब्दगणेऽनेनोनितैकोनपञ्चाशच्छेषपर्यन्तं षष्टया भागो नास्तीति यदा गतकल्यब्दः एतत्संख्याकस्तदा नगनवेभवेदन्यूने षष्टिसंख्या शिष्टा षष्ट्या भक्ते शेषः शून्यं तदा शून्याङ्कजालं ध्रुवके योजयेत् । स मेषसंक्रान्त्यहर्गणः । योज्यानि अङ्कजालानि लिखन्ति । प्रथमं द्वितीयं तृतीयं चतुर्थ पञ्चमं षष्ठं सप्तमं अष्टमं नवमं दशमं विंशं त्रिंशं चत्वारिंशं 'पञ्चाशत् शून्यं ध्रुवकाङ्कजालं इति सिद्धान्तजालानि । यदा गतकल्यब्दगणः इभबाणाङ्कवेदसंख्याको भवति तदा वर्षगणः शैलाङ्केभवेदैरूनितः कार्यः । ततो यच्छेषे षष्टया भक्ते यल्लब्धं तेन गुणितं यच्छून्याङ्कजालं तत्पूर्वध्रुवकाङ्कजाले योजयित्वा ध्रुवकं संस्कृत्य पश्चात् प्रथमाद्यङ्कजालं पूर्ववद्योजयित्वा अहर्गणं साधयेत् । इभेष्वङ्कवेदन्यूने गतकल्यब्दगणे उक्तध्रुवकसंस्कारो नास्ति । एवमहर्गणं साधयित्वा गणं नवभिर्विभज्य शेषोऽतीतवासरः तस्य यल्लब्धं तच्चतुर्भिविभज्य
1 पञ्चाशत् इत्येतनास्ति-अ.