________________
५३
प्रथमः खण्ड:-दीक्षाविधिः किंच----तदभिमतं श्रेयोविद्याग्रहणरूपफलं स्वनिष्ठम् । तथा सति ग्रहीष्यामि इति परस्मैपदान्तप्रयोगः " स्वस्तिजितः कभिप्राये क्रियाफले” इति पाणिन्यनुशासनविरुद्धः । एवं अनेकदोषग्रस्तत्वात् एवंसंकल्पस्त्वनादरणीयः । किंतु " पौरुषाज्ञाननिवृत्तये श्रीविद्यया दीक्षिप्ये' इति संकल्प एव श्रेयान् ॥
तान्त्रिकसकल्पाङ्गभूतः अष्टाङ्गोल्लेखः शिप्यसंकल्पे नाष्टाङ्गोल्लेखः, दीक्षाहीनत्वेन तान्त्रिकेऽनधिकारात् । अग्रे गुरुसंकल्पे तदुल्लेख आवश्यकः, शिप्यस्यापि दीक्षाऽनन्तरभाविकर्मण्युल्लेखः ॥
ननु अष्टाङ्गस्य सूत्रे अनुक्तत्वात् किमिति तद्ग्रहणमिति चेत् --सत्यम् । यद्यपि नास्ति ग्रहणं, तथाऽपि श्रौतस्मार्तादिनिखिलकर्मसु आदौ संकल्प अव्यभिचरितो दृष्टः । प्रकृतेऽपि तद्वत् संकल्प आवश्यकः । संकल्पस्यावश्यकता मूले अधिकतरं गाणनायकीयसपर्यायामुच्यते । संकल्पो नाम विद्यमानदेशकालोल्लेखनपूर्वकफलोल्लेखनसहितप्रकृतकर्मानुष्ठानविषयिणी प्रतिज्ञा । तदुक्तं रहस्यार्णवे
यत्र देशे साधकस्तु स्थितस्तद्देशमुच्चरन् । उल्लिख्य तत्कालमपि प्रतिज्ञा कर्मणस्तु या ।
फलमुद्दिश्याहमिति संकल्पो जलहस्ततः ॥ इति ।। तत्र कालस्य पञ्चाङ्गतः अष्टाङ्गस्य अश्वप्रतिग्रहन्यायेन संनिकृष्टत्वात् अष्टाङ्गोल्लेखनं सूत्रानुयायिनामावश्यकम् । अतः अष्टाङ्गं तत्साधनप्रकारश्च उच्यते ॥
तत्र अष्टाङ्गानि---१-युगं, २-परिवृत्तिः, ३-वर्षः, ४-मासः, ५-दिवसः, ६-नित्या, ७–वारः, ८-घटिकोदयः, इति । तन्त्रशास्त्रे युगानि ३६, एकस्य युगस्य परिवृत्तयः ३६, एकस्याः परिवृत्तेः वर्षाः ३६, एकवर्षस्य मासाः १६, एकमासस्य दिवसाः ३६, नित्याः ३०, वाराः ९, घटिकोदयः ५, । एवमष्टाङ्गसिद्धावुपायः कथ्यते ॥
___ तत्रादौ शालीवाहनशकसाधनोपाय: कथ्यते । इभाक्षिः २८, षष्टिः ६०, गुणितः १६८०, इभाम्यङ्केन ३८ संयुतः ।
- अष्टाङ्गनिरूपणमिदं केषुचिदाकरेषु नोपलभ्यते.