________________
परशुरामकल्पसूत्रम् एतेन सौभाग्यानन्दसन्दोहे द्वादशोल्लासस्यावतरणं " अधुना तस्याः साङ्गोपासनयोग्यताप्रतिपादकदीक्षां पृच्छति" इति, तन्मुख्यार्थमनुसृत्य समर्थनमशक्यमेव इति चेत्न ; मुक्तिसाधनीभूतपौरुषमलनिवृत्त्यर्थक्रियात्वस्यैवादुष्टलक्षणत्वात् ॥
न च प्रकृतलक्षणविचारस्य तदुपजीव्यकैमर्थ्यविचारस्य चानुष्ठानेऽनुपयोगात् केवलपाण्डित्यप्रकटिनी काकदन्तपरीक्षयमिति वाच्यम् ; अस्त्यनुष्ठाने वैषम्यं,--यदि पूर्वोक्तयोग्यताजनकं तर्हि दीक्षासंकल्पे योग्यतासिद्धयर्थमिति, इतरपक्षे पापक्षयार्थमिति ॥
दीक्षासंकल्पप्रकारविचारः
यच्च नित्योत्सवनिबन्धे श्रेयस्कामोऽहममुकविद्याग्रहणार्थममुकगुरोदीक्षां ग्रहीष्यामि " इति, तदत्यन्तानवधानलिखितम् । तथाहि-यच्च श्रेयस्काम इति पदं तदास्तां, कथंचित्पापनाशस्यापि श्रेयोरूपत्वात् । यच्च “ अमुकविद्याग्रहणार्थ " इति तदत्यन्तमशुद्धं, दीक्षायाः पापक्षयैकसाधनत्वस्य व्यवस्थापितत्वात् । आस्तां वा वन्ध्यापुत्रवत् विद्याग्रहणार्थत्वं, तथाऽपि श्रेयस्काम इत्यनेनैव तल्लाभे इदं पदं व्यर्थमेव । न च श्रेयोविद्याग्रहणमुभयं फलं, अतः द्वयोरुल्लेखः इति वाच्यम् ; " सर्वेभ्यो दर्शपूर्णमासौ" इत्यत्र तयोः सर्वफलसाधनत्वेऽपि प्रयोगभेदेनैव भिन्नफलं नैकप्रयोगेण फलद्वयमिति चातुर्थिकन्यायविरुद्धस्य अनादरणीयत्वात् । अत एव तन्त्ररत्ने-" एकस्यैकजातीयव्यापारेण नियतैकजातीयैकफलजनकत्वं लोके दृष्टम् । तत्रैकजातीयजनकत्वं सर्वेभ्य इति वचनेन बाध्यतां, एकफलजनकत्वं केन बाध्यताम्" इति पार्थसारथिनोक्तम् । किंच दीक्षापदार्थः शक्तिप्रवेश-चरणविन्यासमन्त्रोपदेशरूपः । तादृश्याः दीक्षायाः फलसाधनत्वं वा, तद्ग्रहणस्य वा । आये संकल्पे फलसाधनीभूतक्रियामुत्पादयामीत्यर्थके फलासाधनक्रियावाचकं ग्रहीप्यामीति पदं व्यर्थम् । द्वितीय ग्रहणस्य साधनत्वं निर्मू, पूर्ववचनविरोधश्च । किं च--- अमुकगुरोः इत्युच्चारणफलं दृष्टमदृष्टं वा तिथ्याधुच्चारणवत् । नाद्यः, अयं मम गुरुर्भवतु इति स्वेच्छाप्रकाशादन्यत् दृष्टं फलं दुर्वचम् । तच्च तल्लिखितवरणेनैव भवितुमर्हति, किमेतदुच्चारणेन । नान्त्यः, “देशकालौ संकीर्त्य" इति वचनात् तेषां अपूर्वजनकत्वम् । न हि गुरुनामोच्चार्य इति वचनमस्ति, येनादृष्टं तेन भवेत् ।