________________
प्रथमः खण्डः-दीक्षाविधिः
दीक्षया गळितेऽप्यन्तरज्ञाने पौरुषात्मनि । धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत् ॥ देहान्त एव मोक्षः स्यात् पौरुषाज्ञानहानितः । बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनात् ध्रुवम् ॥
तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ इति ॥ अस्यार्थः---पौरुषं बौद्धं चेति ज्ञानं द्विविधम् । तत्र पौरुषं ज्ञानं स्वस्वरूपात्मकम् । बौद्धं च यन्महावाक्यजन्यं चरमवृत्तिरूपं तत्त्वज्ञानमित्युच्यते । एतदावरणरूपमज्ञानमपि द्विविधम् । तत्र पौरुषं पुरुषनिष्ठपातकम् । बौद्धं भेदबुद्धिः । तत्र दीक्षया पौरुषाज्ञाननाशेऽपि बौद्धमलस्य शास्त्रज्ञानेनैव नाश्यत्वात् दीक्षाऽनन्तरमागमसिद्धान्तज्ञानसंपादने तदैव मोक्षः । यदि शास्त्रज्ञानं न संपादितं, केवलदीक्षैव जाता, तस्य देहान्ते मुक्तिरिति । न च बौद्धमलसत्त्वे देहान्ते कथं मुक्तिरिति शङ्कनीयम् , त्रिपुरारहस्य
दीक्षावन्तस्तु देहान्ते प्राप्य लोकं परात् परम् ।
सदाशिवेन ते सम्यक् प्रबुद्धाः शिवरूपिणा ॥ इति तादृशशङ्कायाः निरस्तत्वात् । एवं श्रौताग्निष्टोमादिदीक्षाऽर्थवादेऽपि “पाप्मनोऽपहत्य'' इति श्रूयते । एवं पूर्वमीमांसायामपि दीक्षाया यागजन्यापूर्वोत्पत्तौ सस्याद्युत्पत्तौ कर्षणमिव स्थलस्य आत्मनः शोधकत्वमित्येव सिद्धान्तितम् । ब्रह्मोत्तरखण्डे प्रथमाध्याये—“ राज्ञः पञ्चाक्षरमन्त्रस्य कर्णप्रवेशमात्रेण तच्छरीरादनन्ताः काकाः निर्गताः” इति लिङ्गं च । एवं परमानन्दतन्त्रे दीक्षानामनिरुक्तौ---
दीयते शिवसायुज्यं 'दीर्यते पाशबन्धनम् ।
अतो दीक्षेति कथिता . . . . . . इति च । एवं बहुप्रमाणानुसारेण व्यतिरेकव्याप्तिप्रतिपादकवचनस्य अर्थवादरूपत्वात् । तथाचास्य लक्षणस्यासंभव एव स्यात् ॥
--
क्षीयते-ब.
L LIBRAR
ARA GENTE
AY & REC
१
a25:24 15F23
19653
| TIRUPATI.
19653
PESEARCH
ARITER
HGENTRA