________________
परशुरामकल्पसूत्रम् भावनायामन्वयः, तथा च श्रीविद्योपासनाऽव्यवहितपूर्ववृत्तिदीक्षया इष्टं भावयेत् इति विशिष्टबोधः । अत एवोत्पत्तिविधिः । सर्वथा अवश्यं म ति मा न् पूर्वोक्तभूमिकामारूढः । एतत्पदस्वारस्यादेव अयमधिकारविधिरपि । तादृशभूमिकां आरूढस्यैव अधिकारो नान्यस्य इति सिद्धम् ॥ ___ ननु एकस्मिन्नेव विधौ उत्पत्तिविधित्वं अधिकारविधित्वं उभयं कथमिति चेत्न , : चित्रया यजेत पशुकामः' इत्यादौ तथा दृष्टत्वात् । न च उपासनायामेव तादृशभूमिका ऽऽरूढम्याधिकार इति पूर्व व्यवस्थितम् । न हि दीक्षा उपासना, कथमत्रापि तादृशाधिकारापेक्षा । यच्च उपासनायां दीक्षाया अङ्गत्वेन यः प्रधाने अधिक्रियते सोऽङ्ग इति न्यायप्राप्तार्थस्य अनुवाद एव मतिमान् इत्यनेन कृत इति समाधानम् , तन्न मनोरमम् , अनुवादस्य फलाभावेन वैय्यर्थ्यापत्तेः, दीक्षायाः स्वतन्त्रफलवत्त्वेन अनङ्गत्वाञ्चेति । अनेनैव तादृशभूमिका ऽऽरूढम्य दीक्षाऽधिकारो विधीयते । उपासनायां दीक्षितस्यैव अधिकारः इत्यग्रे वक्ष्यति । तथा सति उपासनायां पूर्वोक्तभूमिका'ऽऽरूढत्वमार्थिकम् ॥
दीक्षास्वरूपतत्फलनिरूपणम् ननु दीक्षात्वं किम् ? न तावदुपास्तियोग्यताजनकक्रियात्वं, उपास्तियोग्यताजनकत्वम्य सत्त्वे प्रमाणाभावात् । न तावत् प्रत्यक्षं अलौकिके संभवति । नाप्यनुमानं. लिङ्गाभावात् । नापि “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इतिवच्छृतिरस्ति यतस्तन्निरूपितं कारणत्वं स्यात् । न च " विनोपनयनं यद्वविजानां सर्वकर्मसु । न योग्यता तथाऽत्रापि विना दीक्षां भृगूगृह ॥” इति त्रिपुरारहस्ये व्यतिरेकव्याप्तेः दण्डाभावे घटाभावः इतिवत् प्रतिपादनात् व्यतिरेकव्याप्तिमूल: कार्यकारणभावः सिध्यति इति वाच्यम् ; दीक्षित उपासीत इत्युपासनाऽधिकारिस्तावकत्वात् । तर्हि दीक्षायाः फलं किमिति चेत्-उच्यते । अनन्तकोटिजन्मसंचितं यत् पापरूपं मलं तन्नाशः । तदुक्तं निशाटनाख्यागमव्याख्याने तन्त्रालोके-- 1 मारुरुक्षु:-अ.
आरुरुक्षोरेव-अ. 3 रुरुक्षोरधि-अ. 4 रुरुक्षो:-अ.
5 रुरुक्षुत्व-अ. ६ तन्त्रालोकव्याख्याने निशाटनानि--अ.