________________
इत्यारभ्य -
प्रथमः खण्डः -- दीक्षाविधिः
ब्रह्मविद्याऽतिसंखिन्ना ब्रह्मिष्ठं ब्राह्मणं ययौ । गोपाय मां सदैव त्वं कुलजामिव योषितम् । शेवधिस्त्वक्षयस्तेऽहं इह लोके परत्र च ।
एवमाद्या येषु दोषास्तेभ्यो वर्जय मां सदा । एवं हि कुर्वतो नित्यं कामधेनुरिवास्मि ते । वन्ध्याऽन्यथा भविष्यामि लतेव फलवर्जिता ॥
इत्येवमादिवचनैः गुरोरेव अपात्रे विद्यादाने स्वविद्यानाशः श्रूयते । स कथं अपात्रे केवलपरेच्छया विद्यामुपदिशेत् । तादृशोपदेशपात्रं दुर्लभम् ॥
अतः सर्वदर्शनेषु मध्ये – इति निर्धारणे सप्तमी - इयं उक्ता विद्या गुप्ता दुर्लभत्यर्थः ।
इदानींत गुरवस्तु ब्रह्मविद्यायाः वणिग्वद्विक्रेतारः । तत्र न गुरुत्वं, नवा शिष्यस्य सन्तापहानिः । प्रत्युत सोऽपि द्रव्यसेवनरागप्रवृत्तः पतत्येव । इत्थं च द्वावपि पतनसाधनमेव कुरुतः, न मोक्षसाधनम् । तदुक्तं 'कुलार्णवे
वो बहवः सन्ति शिष्यवित्तापहारकाः ।
’दुर्लभोऽयं गुरुर्देवि शिष्यसन्तापहारकः ||
इत्यलं भूयसा ॥ ३० ॥
४९
दीक्षाविधिः
एतावत्पर्यन्तं सिद्धान्तमनूद्य उपासकेन प्रथमं कर्तव्यां क्रियामाह
तत्र सर्वथा मतिमान् दीक्षेत ॥ ३ ॥
सप्तमी षष्ठयर्थे, प्रकृत्यर्थः श्रीविद्योपास्तिः, षष्ठयर्थः संबन्धः तदव्यवहितपूर्ववृत्तित्वं, तस्य दीक्षापदार्थे आश्रयतया अन्वयः, तस्य करणत्वसंबन्धेन
1 प्रबोधचन्द्रोदयेब, ब १.
2
गुरुस्तु विरलो लोके—ब, ब १.
7