________________
परशुरामकल्पसूत्रम्
सैषा शास्त्रशैली ॥ २९॥
सैषा पूर्वोक्ता शास्त्र शैली, शास्तीति शास्त्रं पञ्चाम्नायरूपं तस्य शैली रीतिः भवतीति शेषः ॥ २९ ॥
एषा विद्या अतिगुप्ता एतादृशं शास्त्रं श्रोतृप्रवृत्तये प्रशंसतिवेश्या इव प्रकटा वेदादिविद्याः सर्वेषु दर्शनेषु गुप्तेयं विद्या ॥ ३० ॥
वेश्या इव प्रकटाः सुलभाः वे दा दि विद्याः । आदिना स्मृत्यादिः । वेश्योपभोगो द्रव्यादिव्ययेन यथा सुलभः एवं वेदादिविद्यालाभः द्रव्यादिदानेन सुलभः इत्यर्थः । अध्ययनम्य लोभमूलता शास्त्रेणैव प्रतिपादिता " षण्णां तु कर्मणां मध्ये त्रीणि कर्माणि जीविका" इति । अस्याः मोक्षसाधनीभूतब्रह्मविद्यायाम्तु न कोटिकनकव्ययेनापि लाभः, किंतु गुरुकृपैकलभ्यत्वम् ॥
ननु अधिकद्रव्यव्यये गुरुः कृपां किमिति न कुर्यादिति चेत्---न कुर्यादेव । यन गुरुणा ब्रह्मविद्या प्राप्ता तस्य कोटिसुवर्ण तृणादपि तुच्छतरम् । तस्मिन् लोभः कथं भवेत् ॥
___ननु लोभेन प्रवृत्तिमान् भवतु, तथाऽपि परेच्छया विद्यादाने प्रवृत्तौ स्वस्य हान्यभावात् प्रवर्तताम् , तथा च पूर्वविद्या द्रव्यवतैव लभ्या, इयं तु निर्धनेनापि लब्धुं शक्येति प्रकटतरेति चत्-न । विद्वान् परेच्छया प्रवर्तमानः स्वप्रवर्तितवस्तुनि कार्यसिद्धिं दृष्दैव प्रवर्तेत, न विफले । प्रकृते इयं ब्रह्मविद्या मलिनान्तःकरणेषु प्रवर्तिता न केवलं विफला, प्रत्युत गुरोरपि विद्यां नाशयति । उदाहृता एतद्विषये यास्केन श्रुति:---
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि ।
असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा म्याम् ।। इति । अस्यार्थः सुस्पष्टः ॥