________________
४७
प्रथमः खण्ड:-दीक्षाविधिः अत्रैवकारेण-कर्मान्तरे स्वम्यानुष्ठानासामर्थ्य पुत्रप्रियादीन् कर्तृप्रतिनिधित्वेन योजयन्ति, तेन च तत्कर्मजं फलं भवतीति शास्त्रसिद्धम् । अम्मिन् यज्ञे प्रतिनिधिना अनुष्ठिते कर्मजन्यफलं म्वम्य न भवतीति सूचितम् ॥ २६ ॥
भावनाफलं आत्मलाभ:
एवमनुष्ठितभावनायाः फलमाह
निर्विषयचिद्विमृष्टिः फलम् ॥ २७ ॥
नि विष या याः निर्विकल्परूपायाः चितः वि मृ ष्टिः फ ल म् । पूर्वोक्तभावनाया इति शेषः ॥ २७ ॥
ननु किमीदृशफललाभेनेत्यत आह
आत्मलाभान्न परं विद्यते ॥ २८ ॥
आत्म ला मा त् स्वरूपलाभात् परं श्रेष्ठं, फलं इति पूर्वसूत्रम्थं अनुषज्यते, न वि द्य ते नास्तीत्यर्थः । “ पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः '' इति, " तमेवं विद्वानमृत इह भवति" इति च श्रुतिः इममर्थ प्रतिपादयति । मोक्षः परमपुरुषार्थः इत्यत्र न कोऽपि विवादं करोति । अतस्तादृशभावनया परमपुरुषार्थलाभ: इति भावः । पूर्व “ म्वविमर्शः पुरुषार्थः " इत्यनेन पुरुषार्थम्वरूपं प्रतिपादितं, अत्र स्तुतिरिति न पौनरुक्त्यम् ।।
___एतावत्पर्यन्तं पञ्चाम्नायसिद्धान्तरूपश्रीपरशुरामोक्तयो विचार्य व्याख्याताः । केशवशर्मा कश्चित् तदभिप्रायज्ञानासमर्थः ता दूषयामि इति केवलेोया युक्तिशून्यान् प्रलापानभाणीत् । सुधियां तद्दर्शनेनैव युक्तिरहितत्वज्ञानं भविष्यति । मन्दधियां शङ्कानिवृत्त्यर्थ मयैव तद्युक्तिषु केवलप्रलापरूपत्वं दर्शितं मत्कृतसिद्धान्तशिरोमणौ । ग्रन्थविस्तरभयान्नेह लिख्यते । ये तद्बुभुत्सवः ते तत एव जानन्तु ॥ २८ ॥
सिद्धान्तोपसंहारः ." अत्रायं सिद्धान्तः” इत्यारभ्य प्रक्रान्तमर्थ उपसंहरति