________________
परशुरामकल्पसूत्रम् तद्विशेषणस्य तत्समानवचनकत्वार्थ बहुवचनम् । न च आरोप्यारोपम्थले न समानवचनत्वनियमः, अत एव नैषधे----
विभज्य मेरुन यदर्थिसात्कृता न सिन्धुरुत्सर्गजलव्ययैर्मरुः ।
अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम् ॥ इति भिन्नलिङ्गवचनकः प्रयोगः, तथा च बहुवचनस्यागतिरिति वाच्यम् ; सुवे मुक्त्वमस्ति । " सुचः संमार्टि'' इत्युक्तपूर्वोक्तसमूहात् पृथक्कृत्य " स्रुवमग्रे'' इति विधानात् होमसाधनत्वं चास्ति इति तमादाय बहुवचनोपपत्तिः । न च एवमपि द्वयं जातं, बहुत्वं कथं इति वाच्यम् ; " सुग्भ्यां सुवाभ्यां वा पत्नीम्संयाजयन्ति" इति वाक्येन कचित्स्रुवद्वयस्य सत्त्वात् । यद्वा ---" ध्रुवया समिष्टयजुर्जुहोति" इति ध्रुवाया अपि होमशेषत्वात् जुहूध्रुवावान् गृहीत्वा बहुवचनोपपत्तिः सुवचेत्यलं अप्रकृतविचारेण ॥
जुह्वाद्यन्यतमत्वेन इन्द्रियाणि दश भावयेत् । इन्द्रियाणां पूर्वोक्तहविराधारत्वेन युक्तं तद्भावनम् । शक्त यः स्वनिष्ठाः संकुचिताः याः इच्छाज्ञानक्रियाः शक्तयः ता एव ज्वालाः । अग्नौ होमकर्तुः ज्वाला हस्तादिदाहकत्वेन दुःखदा इति लोके स्पष्टम् । तद्वत् होतुः संकुचितपरमशिवस्येमाः शक्तयो दुःखदा इति ज्वालात्वेन भावनं युक्तम् । एवं स्वसंकुचितचैतन्यरूपो जीवः तदभिन्नो यः शि वः शुद्धचैतन्यं तं होमाधारभूताग्नित्वेन भावयेत् । स्वाभिन्नेति विशेषणात् स्वशिवयोरप्यभेदं भावयेदिति भावनाऽन्तरं ज्ञापितम् । यद्यपि इयं भावना " सततं शिवतासमावेशः" इत्यनेनैव प्राप्ता, तथाऽपि सा शिवोऽहमिति भावना, अत्र पावकोऽहमिति शिवस्य पावकत्वेन भावनमिति वैलक्षण्यम् । पावके प्रकाशत्वं शिवेऽपि प्रकाशत्वमिति युक्तं तथा भावनम् । स्वयं परिच्छिन्नचिद्रूपो हो ता होमकर्तृत्वेन भावयेत् । अयमर्थः तन्त्रान्तरे मन्त्रविशेषे स्फुट:---
अन्तर्निरन्तरमनिन्धनमेधमाने ___ मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमरीचिविकासभूम्नि
विश्वं जुहोमि वसुधाऽऽदिशिवावसानम् ॥ इति ॥