________________
प्रथमः खण्ड:-दीक्षाविधिः मपेक्ष्य योगिनीवीराधिक्यभक्ष्यभोज्याद्याधिक्यादिनेति प्रथमं व्याख्याय, तत्रापरितोषेण " विशेषद्रव्येण वेत्यर्थः । तेन नित्यपूजायां विशेषद्रव्यालाभेऽपि प्रतिनिधिना निर्वाहः सूचितः इति नित्यपूजायामेव अभ्यनुज्ञा, नत्वन्यत्र” इति व्याख्याय अस्मिन्नर्थे साधकत्वेन इदमेव वाक्यं दर्शितम् ॥ २४ ॥
सर्वत्र निर्भयता द्वादशं गुणमाहनिर्भयता 'सर्वत्र ॥ २५ ॥
सर्वत्र सर्वतः मपञ्चकस्वीकार कौलमार्गावलम्बने च नरकादिप्रतिपादकानि यानि शास्त्राणि तेभ्यः सर्वेभ्यः निर्गतं भयं यस्मात् स नि र्भ यः तस्य भावः तत्ता, संपादनीयति शेषः । तानि सर्वाणि शास्त्राणि रागिणं भीषयन्ति, कामं भीषयन्तु, अहन्तु न रागी, किंतु शास्त्रेण प्रवर्तितो न मे भीतिरिति निर्धारणेन निर्भयता संपादनीयेति भावः ॥ २५ ॥ .
___ सर्वसारभूतो धर्मः स्वस्य शिवाग्नौ होम: सकलसिद्धान्तसारभूतं धर्ममाह ---
सर्व वेद्यं हव्यं इन्द्रियाणि सुचः शक्तयो ज्वालाः खात्मा शिवः पावकः स्वयमेव होता ॥२६॥
इति भावयेदिति शेषः । अन्तःकरणवृत्तिभिरिति वेद्यमित्यस्यादौ पूरणीयम् । अन्तःकरणवृत्ति वे द्यं सर्व ह वि ष्टुन भावयेत् । यथा अग्नौ प्रक्षिप्तं हविः तदाकारं भवति, एवं वृत्तिवेद्यानां सर्वेषां शिवरूपेऽनौ होमे सति शिवाकारसंपत्तेः तेषु हविष्टेन भावनं युक्तम् ॥
तादृशहविष: आधारभूतहोमसाधनीभूतजुहूरेव नुक्पदेन गृह्मते, न ध्रुवाऽऽदयः, तेषां झुक्पदवाच्यत्वेऽपि होमसाधनत्वाभावेन होमभावनाप्रकरणे ध्रुवाऽऽदीनामयोग्यत्वात् । न च स्रुचः एकत्वेन बहुवचनमनुपपन्नं इति वाच्यम् ; इन्द्रियाणामनेकत्वेन
। सर्वतः-ब.