________________
परशुरामकल्पसूत्रम्
नित्यकर्मालोपः एकादशं धर्ममाह----
अनित्यकर्मलोपः ॥ २३ ॥
नित्यं च तत्कर्म च नित्यकर्म, म्नानसन्ध्यापूजाऽऽदि, तस्य लोपः अननुष्ठानं नित्यकर्मलोपः, न विद्यते नित्यकर्मलोपो यस्मिन्नुपासके स अनित्य कर्म लोपः । भवेदिति शेषः । नित्यकर्म अवश्यं कर्तव्यमित्यर्थः । नित्यकर्म कर्तव्यमिति वक्तव्ये व्यतिरेकमुग्वेन कथनं त्यागे न केवलं ऋतुवैगुण्यं, प्रत्यवायो निरयश्चेति ज्ञापयति ।। २३ ॥ ननु नित्यकर्मसाधनीभूतमपञ्चकालाभे कथं कार्य इत्याशङ्कायामाह --
मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः ॥ २४ ॥
म पञ्च का ला भे मुख्यं नास्तीति न कर्मलोपः । किं तु प्रतिनिधिनाऽपि नित्य क्रम: नित्यपूजा तस्याः प्रत्य व मृ ष्टिः अनुष्ठानं कर्तव्यमिति शेषः ॥
ननु षष्ठाध्याय दर्शपूर्णमासे वीहीणामभावे कर्मलोप इति पूर्वपक्षं कृत्वा तेषां दृष्टपुरोडाशनिप्पत्तिफलकत्वेन नीवारैरपि तत्संभवात् नित्यकर्मणि व्रीहिनियमलोपेऽपि नित्यकर्मणः किंचिदङ्गलोपसहिष्णुत्वात् नित्यनैमित्तिके प्रतिनिधिनाऽपि कार्ये इति सिद्धान्तितम् । तादृशन्यायमूलकतया श्रौतस्मातकर्मसु प्रतिनिधिप्रचारोऽपि दृश्यते । अत्रापि तादृशयुक्त्यैव प्रतिनिधिसिद्धौ वचनं व्यर्थमिति चेत्
न । नित्यवन्यायेन नैमित्तिकेऽपि प्राप्तौ तत्र प्रतिनिधिना नैमित्तिकक्रमनिर्वृत्तिर्मा भवतु, एतदर्थकत्वात् । नचैवं सति अलाभे नित्यातिरिक्तं न कार्यमित्यायातम् । तथा सति श्रौतपरिसंख्यारूपत्वेन स्वार्थत्यागः, परार्थकल्पना, प्राप्तबाधः, इति दोषत्रयापत्तिः इति वाच्यम् ; तन्त्ररत्ने पार्थसारथिना अभ्युदयेष्टयधिकरणे " त्रेधा तण्डुलान् विभजेत्" इति काक्यवैय्यर्थ्यभिया प्रत्युद्देशं वाक्यपरिसमाप्तिरूपो वाक्यभेदोऽङ्गीकृतः । किमु तादृशभीत्या दोषत्रयाङ्गीकारे । अत एव अस्मत्परमगुरुभिः उत्तरचतुश्शतीसेतुबन्धे द्विशतोत्तरद्वितीयश्लोके नैमित्तिकप्रकरणे "चक्रपूजां विशेषेण योगिनीनां समाचरेत् ” इति मूलस्थविशेषेणेतिपदस्य नित्यपूजा