________________
प्रथमः खण्डः---दीक्षाविधिः इति प्राणभक्षः शास्त्रेण कथितं कर्तव्यमिति भक्षणं, आलभनं देवतोद्देशेन त्यागबुद्ध्या पश्वादिहननम् ॥
यद्वा--सर्वत्र वस्तुमात्रे निप्प रि ग्रह ता स्वीयबुद्धित्यागः, स संपादनीयः ।। सर्वत्र ममता त्याज्येति यावत् ॥
___ यच्च नित्योत्सवनिबन्धे स्वभागबुद्धया धनं न संपादनीयमित्यर्थकथनं, तच्चतुर्थाध्याये द्रव्यार्जनं क्रत्वर्थमिति पूर्वपक्षीकृत्य द्रव्यार्जनं केवलपुरुषार्थ इति जैमिनिसिद्धान्तविरुद्धम् ॥ २१ ।।
फलत्यागपूर्वककर्म दशमं धर्ममाह ---
फलं त्यक्त्वा कर्मकरणम् ॥ २२ ॥
फलं पूर्वोक्तं कृत्रिमं तत्साधनं च धर्मार्थकामा इति यावत् । फलविषयिणी इच्छा फलपदम्यार्थः । तं त्यक्त्वा क म णः विहितस्य करणं भवतीति शेषः । काम्यं कर्म न कर्तव्यमित्यर्थः । काम्यं कर्म न कर्तव्यं इति वक्तव्ये फलं त्यक्त्वा कर्तव्यं इति कथनात् काम्यानामपि कर्मणामीश्वरार्पणबुद्धया अनुष्ठानं कर्तव्यमिति ज्ञायते ॥
ननु भगवद्गीतायां
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । इति सकामोपासना भगवता प्रतिपादिता, तद्विरोध इति चेत्न " चतुर्विधा भजन्ते मां” इत्यनेन लोकस्वभावो दर्शितः । काम्यं कर्म न कर्तव्यं इति जगौ । अत एव
यश्च कर्मफलत्यागी स त्यागीत्यभिधीयते ।।
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥ इति कामरहितकर्मणः स्तुतिः ॥ २२ ॥