________________
परशुरामकल्पसूत्रम् संप्रदायाचरणविधिः सार्थकः स्यात् इति वाच्यम् ; एवमधिकारिभेदेन यदि पक्षद्वयं व्यवस्थितं तदा तन्त्रशास्त्रे विकल्पविषयत्वं सर्वथा न स्यात् । यथा विशेषार्घ्यपात्राधारे त्रिपदं चतुष्पदं अपदं वेति पक्षास्तत्र गुरुणा त्रिपदमेवानुष्ठितं, तथैव शिप्येणाप्यनुष्ठितम् । कदाचित् त्रिपदंगतं. चतुप्पदं लब्धं, तेन अनुष्ठानं न स्यात् , गुरुणा अननुष्ठितत्वात् । विकल्पम्य उद्भेद एव न स्यात् । एकपुरुषकर्तके कर्मणि प्रयोगभेदेन पक्षद्वयसमावेश एव हि विकल्पः ॥
किंच----गुरुवाक्य विश्वासविधिर्व्यर्थः । शङ्कानिवृत्त्यर्थं मूलान्वेषणार्थ उद्युक्तम्य कथं किमिति गुरुवाक्ये अतिविश्वासः । तम्मात् गुरोयोग्यतामनुमाय च सद्गुरुवाक्यं विश्वसेत् ॥
उमाऽऽनन्दनाथास्तु “ एकगुरूपास्तिः '' इतिवाक्यं समाप्य " असंशयम्सर्वत्र " इति योजयित्वा गुरुवाक्ये शास्त्रादौ सर्वत्र असंशयः इति व्याचक्रुः । तन्न ; " संप्रदायविश्वासाभ्यां सर्वसिद्धिः". “ विश्वासभूयिष्ठं प्रामाण्यम्". इत्याभ्यामेव अभ्यार्थम्य प्राप्तत्वेन पुनरुक्त्यापत्तेः ॥ २० ॥
सर्वत्र निष्परिग्रहता नवमं धर्ममाह--
सर्वत्र निष्परिग्रहता ॥ २१ ॥
सर्व त्र मपञ्चकादिषु निप्प रि ग्रह ता निर्गतः परिग्रहः इच्छा यस्य सः निष्परिग्रहः तस्य भावः तत्ता । " पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः । अत्रादानम्य परिग्रहस्य मूलं इच्छैव । एतादृशकोशानुसारेण परिग्रहशब्दः इच्छावा- . चकः । मपञ्चकं मे भूयात् इतीच्छया न स्वीकार्यमित्यर्थः । अयमेवार्थो भागवते स्पष्टं प्रतिपादित:
यज्राणभक्षो विहितस्सुरायास्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं नु विदुः स्वधर्मम् ॥ ये त्वनेवंविदः पुंसः स्तब्धाः सदभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥