________________
प्रथमः खण्डः-दीक्षाविधिः त्याज्य एव । यद्युत्पथं दैवात् प्रतिपन्नः तदा सद्गुरोरपि संप्रदाय उत्पथप्रतिपत्त्युत्तरकालीनः त्याज्य एव, अशास्त्रीयत्वनिर्णयात् । इत्यलं पल्लवितेन ॥
अमृतानन्दनाथास्तु-योगिनीतन्त्रव्याख्याने " न देयं परशिष्येभ्यः' इत्यस्य ये विद्याऽन्तरेषु पारंपर्यक्रमेण अधिगताशेषरहस्याशेषपरमार्थाः संप्राप्तपूर्णाभिषेकाश्च ते परशिप्याः । तेभ्यो न देयम् । कुलार्णववचनं चैतत्परम् । एतद्भिन्नेषु देयं, " मधुलुब्धो यथा भृङ्गः" इति वचनात् । ईदृशव्यवस्थायां मानं च पूर्णाभिषेककर्ता यो गुरुः तस्यैव पादुकेत्याहुः ॥
तन्न । पूर्णाभिषेककर्तरि गुरुत्वम्यैव ज्ञापकमिदं वचनम् । तर्हि " तस्यैव पादुका" इति भागो व्यर्थः । यदि गुरुत्वं गुरुपादुकामन्त्रे तन्नाम च विधीयते तदा यो दीक्षाकर्ता स गुरुः इत्येकं, तम्य नाम पादुकायां योज्यं इत्यपरं वाक्यम् । तथा च वाक्यभेदः. स इत्यस्य अध्याहार: गुरुत्वमात्रविधौ वचनान्तरेण गुरुनामपादुकामन्त्रे योज्यमित्यनेनैव सिद्धौ शेषवैय्यर्थ्य दुर्वारं च । तस्मात् “ मधुलुब्धः" इति वचनेन नानागुरुषु सिद्धेषु पादुकामन्त्रे सर्वेषां नाम्नां पक्षे प्राप्तौ नियामकमिदम् । तथा सति न परसमीहितसिद्धिः । प्रत्युत अनेन वचनेन नानागुरुप्राप्तिरेव ज्ञाप्यते । तम्मात् अम्मदुक्ता सरणिरेव साधीयसी ॥
___ दृश्यते चाधुनिकानां शास्त्रविरुद्धानामाचाराणां प्रामाण्यं पूर्वमीमांसाविदामपि, यथा आन्ध्राणां मातुलकन्यापरिणयः । तथा द्राविडसुवासिनीषु कञ्चुकधारणाभावः,
सकञ्चुकयतिं दृष्वाऽकञ्चुकसुवासिनीम् ।
सकेशां विधवां दृष्ट्वा सचेलम्नानमाचरेत् ॥ इत्याङ्गिरसवचनविरुद्धः । अतो न किंचिह्वाधकम् ॥
यदि केवलं गुरौ विश्वसेच्चेत् तर्हि स तिष्ठन्नेव मूत्रपुरीषोत्सर्ग कुर्यात् चेत् तदा म्वस्यापि करणापत्तिः । यदि च बहुतन्त्रविदुषि कचिद्वचनं तद्विरुद्धं दृष्ट्वा तदाचारे अप्रामाण्यग्रहः, स किं तावदंशे स्वीक्रियते. उत सर्वोशे । नाद्यः, लोके क्वचिच्चैत्रादावज्ञाताप्रामाण्यग्रहाचारे कदाचिदप्रामाण्यग्रहे सर्वत्र अप्रामाण्यशङ्कया न विश्वसन्तीति दृष्टं लोके । तद्वदत्रापि सकृयभिचारे सर्वत्र शङ्कया अननुष्ठानापत्तिः । सा च शङ्का सर्वत्र मूलदर्शनमन्तरा नापैति । सर्वत्र मूलशोधनार्थ उद्युक्तश्चेत् तत्र संप्रदायानुसरणविधिः व्यर्थः म्यात् । न च यत्र पक्षद्वयरूपो विकल्पः तत्र स्वगुरु