________________
I
परशुरामकल्पशूत्रम्
यथाशास्त्रमर्थं गृह्णीयात् । यदि जीवन्नपि गुरु: असूयाऽऽदिना नानुजानाति तमुलंघ्य शास्त्रीयं सप्रमाणं मार्गमनुसरेत् । तदुक्तं स्पष्टं त्रिपुरारहस्ये—
४०
गुरुक्तं शास्त्रसंशुद्धं समालोच्य धिया बुधः । कुर्वीतोपासनं सम्यगन्यथा परिहीयते ॥ इति ॥
"
66
'एकगुरूपास्ति: '
एतेऽर्थाः सर्वेऽपि • मधुलुब्धः" इति वचनेन ज्ञापिताः । इत्यस्य सूत्रस्य अस्मिन्नेवार्थे तात्पर्य उक्तयुक्तिगणवशाद्वर्णनीयम् ॥
ये च श्रीभास्कररायाणां “अन्यायो न्याय : ” इति कौलोपनिषच्छ्रुतिभाप्ये गुरुसंप्रदायः असाधुश्चेदपि ग्राह्यः इति लेखनाभिप्रायं वर्णयन्ति ते तदभिप्रायतत्त्वं न विदुः । कोऽयमभिप्रायः इति चेत् — उच्यते । कौलिकाचारमध्ये स्वसिद्धान्तविरुद्धं यद्याचरेत् स्वगुरुः, अन्यश्च कौलिको दयापरवशः सन् बोधयंच्चेत् गुरौ निवेद्य जीवति गृह्णीयात् । यदि वावदूकोऽन्यः कौलमार्ग दूषयितुं प्रवृत्तः स्यात् स्वयं तत्खण्डने अपटुरपि तत्र प्रामाण्यबुद्धिं न त्यजेत् । अत एव कौलिकाचारं [न] दृषयेत् इत्येव लिखितम् । एवं गुरौ स्वस्य किंचिज्ज्ञत्वसंशयो नास्ति, किंतु बहुतन्त्रवेत्तृत्वं निश्चितं चिरवासेन । स च न जीवति । तदाचारविरुद्धं यदि तन्त्रे क्वचिदुपलब्धं वचनं, तदा आचारस्य दुर्बलत्वात्, तन्मूलभूतप्रमाणोपलब्धिपर्यन्तं तस्याननुष्ठानरूपमप्रामाण्यं श्रौतस्मार्तानुष्ठाने पूर्वमीमांसानुसारेण । कौलिके तु पूर्वोक्तनिश्चयदशायां शास्त्रविरुद्धोऽप्यनुष्ठेय एवेति विशेषः । न तु गुरौ मन्दमतित्वनिश्चये । तथा ईदृशोऽभिप्रायः तत्रैव 'सद्गुरुसंप्रदायैकलभ्यत्वेन ' इत्यत्र गुरौ सत्त्वविशेषणेन ज्ञापितः । इदं तत्त्वं — गुरौ असर्वज्ञत्वानुमापको हेतुः प्रभूतशास्त्रविरुद्धाचारवत्त्वं, सर्व ज्ञत्वानुमापकश्च सर्वाशेन शास्त्रानुमतत्वे सति तद्विरुद्धकाचित्कत्वम् ॥
I
ननु “ सुन्दरः सुमुखः स्वच्छ: ' सुलक्षो बहुतन्त्रवित्" इति कादिमते गुरुलक्षणस्योक्तत्वात् बहुशः तन्त्रविरुद्धानुष्ठातारं कथं गुरुं शिप्यः कुर्यात् । न हि सेवार्थे वत्सरोषितस्य विदुषः अज्ञानं संभवति । कथमीदृशमुदाहरणं संभवद्युक्तिकमिति चेत् —–न, पूर्वमज्ञतादशायां केवलश्रद्धोद्रेकेण दीक्षितस्य तादृशगुरुं स्वीकृतवतः पश्चादध्ययनादिसंपादितज्ञानस्य पूर्वोक्तहेतुना अनुमानसंभवात् । तादृशेन पूर्वाचार:
1
सुलभो- - इति क्वचित्