________________
प्रथमः खण्डः--दीक्षाविधिः कथमङ्गलोपः इति वाच्यम् ; एकत्वं हि न संख्यारूपं विधीयते, तस्य वस्तुमात्रसाधारण्येन अव्यावर्तकत्वात् , किंतु सजातीयद्वितीयरहितत्वं, गुर्वन्तराश्रयणे तल्लोपस्त्वनिवार्यः । अतो न गुर्वन्तराश्रयणमिति एकत्वविधिरेव श्रेष्ठः इति चेत्___आस्तां वा एकत्वविधिः । इममेवाथै श्रीशिवः तन्त्रेषु भङ्गयन्तरेण प्रकटितवान् । रुद्रयामळे
न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ॥ इति ॥ कुलार्णवे
लब्ध्वा कुलगुरुं सम्यक् न गुर्वन्तरमाश्रयेत् ॥ योगिनीतन्त्रेऽपि
न देयं परशिष्येभ्यो नास्तिकाय कुलेश्वरि ॥ इति ॥ उपनिषद्यपि—" गुरुरेकः" इति । क्वचिच्छिप्यधर्मे इममेवाथै प्राह । क्वचिद्गुरुधर्मे ‘परशिप्याय न वदेत् ' इति भङ्गयन्तरेण । द्वयोः एकगुरूपास्तिरूपफले एव पर्यवसानं भवति । अयमभिप्रायः एषां वचनानां प्रतिभाति—पूर्वोक्तरुद्रयामळकुलार्णवयोगिनीतन्त्रेषु स्वसंशयच्छेत्तरि गुरौ सतीत्यध्याहार्यम् । अन्यथा
मधुलुब्धो यथा भृङ्गः पुष्पात् पुप्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्मुर्वन्तरं व्रजेत् ॥ इति ॥ तन्त्रान्तरे, शक्तिरहस्येऽपि—" कौलिके गुरवोऽनन्ताः' इति वचनानां, निरवकाशताऽऽपत्तेः । एतेन पूर्वगुरुः असर्वज्ञः स्वसंशयच्छेदनेऽसमर्थः, यद्वा समर्थः स्वस्य संशयमच्छित्त्वा मृतः, तादृशशिप्यः " मधुलुब्धः” इति वचनानुसारेण गुर्वन्तरमाश्रयेत् । तत्राप्यल्पज्ञेऽपि गुरौ जीवति तदनुमत्या गृह्णीयादन्योक्तम् । तदप्युक्तं कुलार्णवे
मन्त्रागमादि चान्यत्र श्रुतं नाथे निवेदयेत् ॥
गुर्वाज्ञया तद्गृह्णीयात् तदनिष्टं विवर्जयेत् ॥ इति । गुरावल्पतातारतम्यं निर्णेतुं स्वयमसमर्थश्चेत् यं परिगृह्णाति तन्मार्गत्यागो न। कार्यः । तादृशनिर्णयसमर्थश्चेत् तस्मिन् सोपपत्तिकमर्थ रहसि संबोध्य तदनुमत्या