________________
Sag
1
३८
परशुरामकल्पसूत्रम्
कामादीनां वर्जनम्
सप्तममाह
कामक्रोध लोभमोहमदमात्सर्याविहितहिंसास्तेय'लोकविद्विष्टवर्जनम् ॥ १९॥
कामः वैषयिकी इच्छा इदं मे भूयात् इत्याकारिका । क्रोधः तमस उद्रेकेण जनितोऽसौ अन्तःकरणधर्मः । लोभः, द्रव्यादिनिष्ठस्वत्वत्यागप्रतिबन्धकोऽत्यन्तमनुरागविशेषः । मोहः, कार्याकार्याविचारणम् । मदः, गर्वः । मात्सर्य, द्वेषजनितो गुणिनि दोषारोपः । अविहित हिंसा, रागेण भक्षणार्थं पश्वादिवधः । स्तेयं, पराननुमत्या परद्रव्यहरणम् । लोक विद्विष्टं मातृबुद्धयाऽपि एकान्ते परस्त्रीसंलापादि । एतेषां वर्ज नं त्यागः, कर्तव्य इति शेषः ॥ १९ ॥
एकगुरूपास्ति:
अष्टमं धर्ममाह—
एकगुरूपास्तिर संशयः ॥ २० ॥
न विद्यते संशयो यत्रेति विग्रहेण अ संशयः इत्ये क गुरूपा स्तिविशेषणम् । भिन्नलिङ्गत्वमार्षम् ॥
अयं भावः—अनेकगुरूपास्तौ पूर्वगुरूक्तविरुद्धं यदि वदेत् तर्हि संशयो भवेदेव । एकगुरूपास्तौ न संशयो भवेत् । अतः एकगुरूपास्तिः कार्येति भावः । गुरूपास्तेः “ संप्रदायविश्वासाभ्यां " इति पूर्वसूत्रेणैव प्राप्तौ पुनर्विधानं एकं गुरुमाश्रित्य न गुर्वन्तरमाश्रयेत् इति इतरगुर्वाश्रयनिवृत्तिफलकेयं परिसंख्या ॥
एकगुरूपास्तिविध्यर्थविचारः
ननु
-न परिसंख्याऽऽश्रयणं युक्तं, दोषत्रयापत्तेः । किं तु उपास्यगुरुमनूद्यैकत्वमात्रं विधीयते, इतरनिवृत्तिस्तु अङ्गलोपभिया, एकत्वस्य अङ्गत्वेन, इतरगुरूपस्तौ तल्लोपापत्तेः । न च गुरुद्वयाद्याश्रयणेऽपि प्रत्येकं गुरुषु प्रत्येकमेकत्वमस्तीति
' लोकविरुद्धस्त्रीविद्वि-अ.