________________
प्रथमः खण्डः-दीक्षाविधिः ___ सदा सर्वकालं पूजादिविहितनित्यकर्मानुष्ठानकालव्यतिरिक्त सर्वदेत्यर्थः । वि द्या या : स्वोपास्यदेवतावाचकमन्त्रस्य अनुसंह ति : तत्प्रतिपादितार्थस्य अनुसंधानं, कर्तव्यमिति शेषः ।
यद्वा—स दा अनु सं ह ति : मनसा जपः कार्यः इत्यर्थः । न च आसनादिनियमरहितस्य जपोऽयुक्तः इति शङ्कनीयम् ; मानसे कस्यापि नियमम्याभावात् । तदुक्तं परमानन्दतन्त्रे
मानमेऽनन्तगुणितं नियमस्तत्र नैव तु । गच्छन् शयान आसीनो भुक्तो वा यन्त्र कुत्र चित् ।
अस्नातश्चापवित्रश्च न दोषस्तत्र विद्यते । बृहद्वामकेश्वरतन्त्रेऽपि
सर्वकालं जपेद्विद्यां मनसा यस्तु केवलम् । नियतो वाऽप्यनियतोऽप्यथ कुर्वश्च नित्यकम् ।
तथाऽपि तस्य शुद्धम्य तरसा संप्रसीदति ॥ इति ।। यदि सदापदस्य संकोचो न स्यात्तर्हि नित्यकर्मानुष्ठानलोपापत्तिः । अतः “ सर्वे . हार्योजनं लिप्सन्ति' इत्यत्रेव संकोचः आवश्यकः ॥ १७ ॥
सततं शिवतासमावेशः षष्ठं धर्ममाह
सततं शिवतासमावेशः ॥ १८॥ सततं अस्याप्यर्थः पूर्वसूत्रस्थसदाशब्दवत् । शिव ता याः स मा वे शः आविर्भावः, कर्तव्य इति शेषः । नित्यकर्मानुष्ठानव्यतिरिक्तकाले शिवोऽहमस्मीति भावयेत् इति तात्पर्यम् ॥
वस्तुतस्तु-पूर्वधर्मेण सहायं विकल्प्यते, अन्यथा उभयो वनयोंः युगपत्संपादनासंभवात् । पूजाऽऽदिव्यतिरिक्तकाले अन्यतरस्यानुष्ठानं इति भावः ॥
यद्वा-पूर्वधर्मों मन्दाधिकारिणः अयं मुख्याधिकारिणः ॥ १८ ॥