SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३ परशुरामकल्पसूत्रम् म्वशास्त्रविरुद्धं यदि गीर्वाणगुरुर्वदेत्तर्हि स गुरुरिति ग ण नं न कर्तव्यम् । अत एव श्रुतिरपि--" न गणयेत् कमपि " इति ॥ १५ ॥ सच्छिष्ये रहस्यकथनम् चतुर्थमाह सच्छिष्ये रहस्यकथनम् ॥ १६ ॥ कर्तव्यमिति शेषः । परिसंख्याविधिरयम् । “आत्मरहस्यं न वदेत्" इति निषेधस्यापवादोऽयं, न तु गुप्त्याऽर्चनं इत्यस्यापवादः, तथा सति शिप्यातिरिक्तेषु सामयिकेषु पूजाप्राकट्यानापत्तेः । अतः इदमात्म र ह स्यं स्वसिद्धान्तरूपं सामयिकेषु शिप्यभिन्नेषु न कथ ये त् । स च्छि प्ये कथयदित्यर्थः । शिप्ये सत्त्वं प्रतिपादितं तन्त्रराजे सुन्दरः सुमुखः स्वच्छः श्रद्धावान् सुस्थिराशयः । अलुब्धः स्थिरगात्रश्च प्रेक्ष्यकारी जितेन्द्रियः ॥ आस्तिको दृढभक्तिश्च गुरौ मन्त्रेऽथ दैवते । एवंविधो भवेच्छिप्यः इतरो दुःखकृद्गुरोः ॥ इति ॥ आत्मपुराणेऽपि ब्रह्मविद्याऽतिसंखिन्ना ब्रह्मिष्ठं ब्राह्मणं ययौ । गोपाय मां सदैव त्वं कुलजामिव योषितम् ॥ इत्यारभ्य एवमाद्या येषु दोषास्तेभ्यो वर्जय मां सदा । एवं हि कुर्वतो नित्यं कामधेनुरिवास्मि ते ॥ इति ॥ असत्त्वलक्षणानि शिप्यदोषाः कुलार्णवात् विस्तरेण ज्ञेयाः ॥ १६ ॥ सदा विद्याऽनुसंधानम् पञ्चमं धर्ममाहसदा विद्याऽनुसंहतिः ॥ १७ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy