________________
३५
प्रथमः खण्डः-दीक्षाविधिः 'अहमिदं जानामि' इत्येतादृशवृत्तिषु इदंपदार्थापेक्षया अहंतया भासमानं श्रेष्ठमिति विवेचनम्— सर्ववृत्तिषु इदमेव भा व ना पदार्थः । तस्य दा ढ्य अशिथिलता। अनेन आज्ञा सि द्धिः निग्रहानुग्रहसामर्थ्य भवतीति शेषः । भावनादा स्तुत्या सर्वदा ईदृशभावनाविधिरुन्नेयः ॥ १३ ॥
सर्वदर्शनानिन्दा उपासकस्य नियमान्तरमाह
सर्वदर्श'नानिन्दा ॥ १४ ॥
इतरदेवतोपासनाविधायकानि यानि दर्श ना नि शास्त्राणि तेषां निन्दा न कर्तव्येत्यर्थः । तन्निन्दने तदधिकारिणां संशयोत्पत्त्या स्वावलम्बितदर्शनेप्वनाश्वासः । अस्मिन् शास्त्रे अनधिकारात् उभयभ्रष्टः छिन्नाभ्रमिव नश्येत् । इममेवाथै श्रीकृष्णोऽप्याह
___ न बुद्धिभेदं जनयदज्ञानां कर्मसङ्गिनाम् ॥ इति ॥ ." लोकान्न निन्द्यात्' इति श्रुतिरपि ॥
___ ननु परेषां बुद्धिभ्रंशजनितप्रत्यवायाभावोऽस्य फलमिति सिद्धम् । अयं पुरुषार्थः । कथं उपासकधर्माणां क्रतुसाद्गुण्यजनकानां मध्ये पाठ इति चेत् - उच्यते । अयमपि उपासनाजन्यसर्वात्मभावे उपयुज्यते । कथं ? इति चेत् इत्थं—यदि छिन्नाभ्रवत् परेषां नाशे स्वस्योपेक्षा तदैव निन्दायां प्रवृत्तिः । तथा च परनाशे उपेक्षायां आत्मवत् सर्वभूतदर्शनं नागतं इति सर्वात्मतायाः असिद्धया उपासनाजन्यफलासिद्धिः । प्रयाजादिषु क्रत्वर्थत्वं इदमेव क्रतुसाध्यापूर्वसाधकत्वम् । प्रकृते उक्तरीत्या क्रत्वर्थत्वं सिद्धमिति न कोऽपि दोषः ॥ १४ ॥
कस्याप्यगणनम् तृतीयं धर्ममाह
अगणनं कस्यापि ॥ १५॥ 'नानिन्दनम्-अ