________________
परशुरामकल्पसूत्रम्
यथा चिद्रूपं ब्रह्म एवं आ नन्द रू प मपि, “ विज्ञानमानन्दं ब्रह्म' इति श्रुतेः । यथा चिद्रूपमावृतमज्ञानेन न जानाति एवमानन्दस्वरूपमपि दुःखेनावृतं न जानाति । यदा कदाचित् भारादिरूपदु:खापगमे ब्रह्मण एव परिच्छिन्नं रूपं शरीरावच्छेदेन संप्रत्यपि जानाति तादृशानन्दः परिच्छिन्नो दे हे देहावच्छेदेन व्य व स्थि तः । तस्य अभिव्य ञ्ज काः तद्विषयकसाक्षात्कारजनकाः पञ्च मका राः । एतदन्तेन विधीयमानद्रव्यस्तुतिः अनुष्ठातृप्रवृत्तये । यत ईदृशाः श्रेष्ठाः पञ्च मकाराः अतः तैर र्चनं गुप्त्या अप्राकटयेन, कुर्वीतेति शेषः । गुप्तिद्रव्योभयविशिष्टार्चनरूपं कर्म अनेन विधीयते ॥
ननु विशिष्टकर्मविधौ कर्मण एव स्तुतिरपेक्षिता विधेयस्यैव स्तुत्यत्वनियमादिति चेत्--न ; विशिष्टविधौ विशेषणविधेराक्षिप्तत्वेन अस्यार्थवादस्य तच्छेषत्वसंभवात् , यथा “ वायव्यं श्वेतमालभेत' इत्यत्र देवताविशिष्टकर्मविधावपि “वायुर्वै क्षेपिष्ठा" इत्यनेन देवतास्तुतिः, तद्वत् । कर्मणि गुप्तिश्च पशुवृत्तिज्ञानविषयतासामान्यज्ञानशून्यत्वम् । अस्य विशिष्टविधिरूपत्वात् गुप्तिः क्रत्वर्था । तस्यैव ‘प्राकट्यान्निरयः' इति निन्दारूपा स्तुतिः । यथा-" यद् ग्राम्याणां पशूनां चर्मणा संभरेद् ग्राम्यान् पशून्छुचाऽर्पयेत्” इति निन्दारूपः सन् “ कृष्णाजिनेन संभरति" इति स्तुतिशेषः, तथा तेन दैवात् प्राकटये क्रत्वङ्गलोपजनितं प्रायश्चित्तं, न नरकनिरासाय अन्यत् प्रायश्चित्तम् ॥
प्रा क ट्या त् गुप्तिविपरीतात् । हेतौ पञ्चमी । निर य : नरकः इत्यर्थः ॥
श्रीभासुरानन्दनाथपादास्तु-" दीक्षाऽन्तरवतां म्वधर्मप्रकटने क्रतुवैगुण्यमात्रं, इह तु तद्वैगुण्ये नरक एव, तथा च भगवान् परशुरामः ‘प्राकट्यान्निरयः'' इत्यूचुः । तन्मते वाक्यभेदः, प्रकृतहान्यप्रकृतपुरुषार्थत्वकल्पनादिदोषपरिहारोपायमल्पमतिरहं न जाने ॥ १२ ॥
उपासकधर्माः-भावनादाढर्यम् एवमुपासनामुक्त्वा उपासकधर्मान् प्राहभावनादाढर्यादाज्ञासिद्धिः ॥ १३ ॥