________________
प्रथमः खण्डः-दीक्षाविधिः नभस्वान्मनसो नातिभिन्नोऽतस्तन्निरोधनात् मनो निश्चलतामेति ॥ इति ॥ यद्यपि ईदृशनिश्चयः उपासनावेळायां न भवितुमर्हति, तथाऽपि आहार्य क्षणमात्रं कार्यमिदमुपासनायामङ्गम् ॥
जपरूपोपास्तिफलम् यद्वा—संप्रदायविश्वाससहितमन्त्रकरणकोपास्तेः फलमाह-गुरु मन्त्रे ति । ऐक्य निष्फाल नं ऐक्यनिर्णयः, तद्वारा प्रत्यगात्मज्ञानं भवतीति विशिष्टार्थः ॥
उमाऽऽनन्दनाथास्तु-गुरुमन्त्रेत्यम्य आरंभोल्लासे गुरुमन्त्रदेवताऽऽत्मनां ऐक्यभावनं एकं साधनं, मनःपवनयोः एकयत्ननिरोद्धव्यत्वज्ञानं चापरं, द्वाभ्यां कार्यसिद्धिः इति व्याचक्रुः । तच्चिन्त्यम् । निप्फालनादित्येकक्रियाया एकोऽर्थो भावनारूपः एकयत्ननिरोद्धव्यत्वज्ञानरूपो वा बुध्येत नानेकः, “ सकृदुच्चरितश्शब्दः सकृदेवार्थ गमयति" इति न्यायात् । अन्यथा हरिपदात् चतुर्दशानामप्यर्थानां युगपद्बोधप्रसङ्गात् । किंच-द्वन्द्वघटकीभूतपदार्थानां यदि भिन्नक्रिययाऽन्वयः, तदा “ भिक्षामट, गां चानय” इतिवत् अन्वाचय एव स्यात् , “क्रियाभेदे अन्वाचयः” इति तल्लक्षणात् । एकक्रियायां युगपदन्वयित्वं हि द्वन्द्वलक्षणं, तन्निर्वाहस्तु सर्वथा कर्तुमशक्यः तन्मते । न च-" धवखदिरौ छिन्धि पश्य" इति प्रयोगो न स्यात् इति वाच्यम् ; ईदृशप्रयोगोऽप्रामाणिक एव इति सर्वैर्व्यवस्थापितत्वात् ॥ ११ ॥
अर्चनरूपोपास्तिविधिः एतावत्पर्यन्तं मन्त्रस्तुत्या तत्सहकारिकारणकथनेन च मन्त्रकरणकक्रियातद्विधिरुन्नेयः । तथा च तादृशी जपरू पैव । एवं जपरूपोपास्ति निरूप्य पूजारूपामुपास्ति हि विधत्ते---
आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं तस्याभिव्यञ्जकाः पञ्च मकाराः तैरर्चनं गुप्त्या प्राकट्यान्निरयः ॥ १२ ॥