________________
परशुरामकल्पसूत्रम् तस्य प्रामाण्ये अभेदान्वयः । अत्यन्तविश्वासवत्पुरुषैकवेद्यं एतच्छास्त्रप्रामाण्यमित्यर्थः ।। कुतर्कशालिनां शास्त्रप्रामाण्यं सर्वथा अगम्यमिति भावः । तदुक्तं भट्टपादैः
__ शास्त्रैकगम्या ये ह्या न तांस्तकेंण दूषयेत् ॥ इति ॥
केचित्तु-विश्वासस्य भूयिष्ठं बाहुळ्यं यत्रेति बहुव्रीहिमाहुः । तच्चिन्त्यम् । भूयिष्ठपदस्य पाणिन्यनुशासनेन पुरुषपरत्वेन बाहुळ्यरूपधर्मपरत्वायोगात् । यदि च धर्मे लक्षणा तदा मदाश्रितलक्षणापक्ष एव श्रेष्ठः । न सः । तथा सति बाहुळ्ये एकत्र लक्षणायामपि धर्मस्यापि प्रामाण्येन समं अभेदान्वयासंभवात् बहुव्रीहौ अन्यपदार्थे लक्षणा वाच्या, बाहुळ्यसंबन्धिप्रामाण्यमिति । संबन्धश्च स्वाश्रयवृत्तिज्ञानवेद्यत्वमेव वक्तव्यम् । तथा च मन्मततुल्यम् । एतदंशे धर्मे लक्षणाऽऽधिक्यं क्लिष्टव्यधिकरणबहुव्रीह्याश्रयणं च । तस्मादिदमेव व्याख्यानं वरम् ॥
ईदृशमेव श्रद्धाभूयस्त्वमिति सुस्पष्टमुवाच श्रीस्कन्दः--
अगस्त्य किं बहूक्तेन शृणु मे निश्चितं वचः । संशयो नात्र कर्तव्यः सन्दिग्धाद्धि फलं न हि ॥ यावन्ति म] तन्त्राणि मन्त्रजालान्यनेकशः ।
तावन्ति स्तवराजस्य कोटयंशेन समानि न ॥ इति ॥ १० ॥ सहकार्यन्तरमाह--- गुरुमन्त्रदेवताऽऽत्ममनःपवनानां
ऐक्यनिष्फालनादन्तरात्मवित्तिः ॥ ११ ॥
गुर्वा दयः स्पष्टाः । प व ना : पञ्चप्राणाः । एतेषां ऐक्य नि प्फा ल नं भावनया एकत्वसंपादनम् , तेन अन्त रा त्म न : प्रत्यगात्मनः 'वित्ति : वेदनं भवतीति शेषः । आत्मनो देवतायाश्च ऐक्यं उपाधिनिरासे स्पष्टम् । देवताया मन्त्रस्य चैक्यं वाच्यवाचकभावापन्नत्वेन । तथा गुरोरपि । मनःपवनयो रैक्यं विष्णुपुराणे दर्शितम्
'स्तोत्राणि-श्री.