________________
प्रथमः खण्डः-दीक्षाविधिः मन्त्रा णा मिति षष्ठी सप्तम्यर्थे, मन्त्रेष्वित्यर्थः । न चिन्त्या अचिन्त्या शक्तिर्यत्र ते अचिन्त्य शक्त यः मन्त्राः, तेषां भावः तत्ता, अस्तीति शेषः । शक्तौ अचिन्त्यत्वं च तर्काविषयत्वम् । एतेन पूर्वोदितमाया अता दुर्वारा, तथाऽपि तन्निवारण समर्था ततोऽपि अधिकशक्तिका मन्त्रेषु लीलया ज्ञानावरकाविद्यानिवर्तकत्वशक्तिरस्तीति प्रतिपादितम् ॥ ८ ॥
मन्त्रसिद्धौ सहकारिकारणानि मन्त्रेण ईप्सितकार्ये जननीय सहकारिकारणान्याह
संप्रदायविश्वासाभ्यां सर्वसिद्धिः ॥९॥
संप्रदाय : गुरुपरंपराऽऽचारानुसरणम् । विश्वा सो मन्त्रेषु फलसाधनत्वविषयको निश्चयः । आभ्यां सहितमन्त्रेण सर्व सि द्धिः भवतीति शेषः । यद्यपि लोके एकेन दण्डेन एकव्यापारेण घट एव भवति न पटः । एवं तुरीवेमादिना पट एव न घट इति । एवं सर्वकारणेषु लोके नियतैककार्यजनकत्वं दृष्टम् । तथाऽपि मन्त्रेषु न तथा । एक एव मन्त्रः यद्यदीप्सितं तत्सर्वं जनयति इति ज्ञापयितुं सर्वपदम् । एतेन श्रोतृप्रवृत्तये मन्त्रवर्तिगुणोऽपि प्रतिपादितो भवति ॥ ९ ॥
ननु कथं लोकविरुद्धार्थकं इदं वाक्यं प्रमाणं भवितुमर्हति इत्यत आहविश्वासभूयिष्ठं प्रामाण्यम् ॥ १० ॥
प्रामाण्यं संवादिप्रवृत्तिजनकतद्वतितत्प्रकारकज्ञानजनकत्वम् । सर्वसिद्धिरिति पूर्वोक्तवाक्यनिष्ठं विश्वास भू यिष्ठम् । अत्र विश्वासपदार्थश्च वाक्यप्रयोक्तरि आतत्वनिश्चयः । बहुशब्दात् अतिशयार्थे इष्ठन् प्रत्ययः । तत्र—पाणिनिसूत्रं " अतिशायन तमबिष्ठनौ' । अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः इति तदर्थः । एवं म्वार्थे इष्ठनि जाते . इष्ठस्य" इति बहोः परस्य इष्ठस्य लोपः स्यात् । “ बहोलोपो भू च बहोः" इति इडागमो भूरादेशश्च इति तदर्थः । एवं भूरादेशे इडागमे च भूयिष्ठशब्दन अत्यन्तबहुत्वविशिष्टः पुरुषार्थः । पुरुषे विश्वासभूयिष्ठत्वं च म्वोत्तरोत्पन्नत्वस्वविषयविषयकत्वसंबन्धेन विश्वासविशिष्टशंकाऽनधिकरणत्वं, तदाश्रयपुरुषेण सममभेदान्वयस्य बाधितत्वात् । भूयिष्ठपदस्य भूयिष्ठाश्रयज्ञानविषये लक्षणा ।