________________
परशुरामकल्पसूत्रम्
मन्त्रगुणवर्णनम् ननु योगादिनाऽपि ईदृशपुरुषार्थलाभो भवतीति शास्त्रं बहूपलभ्यते । किमुपासनाया आवश्यकत्वं वर्ण्यते इति चेत्— अस्त्युपासनाया आवश्यकता । योगादिभिः लभ्यमोक्षस्तु न पुनरावृत्तिरहितः । तदुक्तं स्वच्छन्दसंग्रहे
मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः ।
बद्धः संसरते भूयो यावद्देवं न विन्दति ॥ इति ॥ एवं स्थलान्तरेऽपि
सांख्ययोगादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे ।
सृजत्येव पुनस्तेन न सदृङ्मुक्तिरीदृशी ॥ इति । अतः उपासनाया एव मुख्योपायत्वे सिद्धे उपासनायां जपल्यापि सत्त्वात् तत्र मुख्यसाधनं मन्त्र इति तत्र उपासकस्य श्रद्धोत्पत्तये तद्वृत्तिगुणान् वर्णयति
वर्णात्मका नित्याः शब्दाः ॥७॥ वर्णात्मकाः वर्णसमुदायरूपाः शब्दाः मन्त्राः नित्याः मूलाविद्यासमसत्ताकाः इत्यर्थः । न तु कालत्रयाबाध्यत्वं, अज्ञाननिवृत्तौ स्वस्वरूपातिरिक्तदेवतायाः तद्वाचकमन्त्राणां च असत्त्वात् । नच आनुपूर्वीविशेषविशिष्टवेदादीनां नित्यत्वस्य एककल्पस्थायित्वस्य वर्णितत्वेन अस्यापि तादृशत्वेन कथं ततोऽपि चिरस्थायित्वरूपं नित्यत्वं इति वाच्यम् ; मन्त्राणां देवतासूक्ष्मशरीररूपत्वेन देवताशरीरस्य अविद्यासमकालत्वात् ॥ ७ ॥
अथवा
सप्तकोटिमहामन्त्राः शिववक्त्राद्विनिर्गताः । इति स्कान्दात् मन्त्राणामपि सादित्वेन नाविद्यासमकालिकत्वं, तस्या अनादित्वात् । अत एव इतरसाधारणगुणत्वेन नानेन स्तुतिः संभवतीति अपरितोषेण मन्त्राणामसाधारणं गुणान्तरमाह
मन्त्राणामचिन्त्यशक्तिता ॥ ८॥