________________
प्रथमः खण्डः-दीक्षाविधिः
तदेतत् कार्म मलम् । एतादृशत्रिविधमलं शरी र पदेनोच्यते । तद्रूपं यत् क ञ्चु कं आच्छादनं तेन आवृतः शि व एव जी वः । तदुक्तं परमार्थसारे
परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य ।
देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ इति ॥ सुभगोदयेऽपि
स तथा परिमितमूर्तिस्संकोचितसमस्तशक्तिरेष पुमान् ।
रविरिव सन्ध्यारक्तस्संहृतरश्मिस्स्वभासनेऽप्यपटुः ॥ इति । यद्वा—शरीरं त्रिविधं, स्थूलं, सूक्ष्मं, परं, चेति । आद्यं ध्यानश्लोकप्रतिपादितम् । द्वितीयं मन्त्ररूपम् । तृतीयं वासनाऽऽत्मकम् । एतैः शरीरैः कञ्चु कि तः शि वः आद्यतत्त्वं सोऽपि जीव एवेत्यर्थः । तस्मिन्नेव जीवत्वमस्ति, का कथा अन्येष्विति भावः । एतेन शिवस्वरूपलाभोऽपि न परमपुरुषार्थ इति ध्वनितम् ॥
एतादृशजीवाः त्रिविधाः-शुद्धाः, अशुद्धाः, मिश्राश्च, इति । आद्याः शिवादिसदाशिवान्ताः, तेषां अज्ञानाभावात् । अशुद्धाः मनुष्यादयः । मिश्राः वसिष्ठादयः । एतादृशकञ्चुकरहितो यः सः तत्त्वातीतः पर शि वः इत्यर्थः ॥ ५ ॥
पुरुषार्थस्वरूपम् एवं जीवेश्वरयोः स्वरूपमुक्त्वा कः पुरुषार्थः इति तं निर्दिशति
स्वविमर्शः पुरुषार्थः ॥ ६॥ स्व स्य परशिवस्वरूपस्य विमर्शः प्रत्यभिज्ञानं सोऽहमित्याकारक-यथा कण्ठस्थं चामीकरं विस्मृत्य तदन्वेषणाय देशाद्देशं धावन् केनचित् उद्बुद्धसंस्कारः कण्ठस्थं पश्यति तथा विस्मृतस्वरूपज्ञानस्य पुनर्लाभः-पुरुषार्थः अकृत्रिमः इत्यर्थः । एतादृशपुरुषार्थलाभश्च न भगवत्कृपामृते भविष्यति । तदुक्तं भगवता श्रीकृष्णेन
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति ॥ भगवत्प्रीतिश्च भगवदाराधनेनैव भवति । अतो भगवदाराधनं परंपरया मोक्षसाधनम् ॥ ६ ॥