________________
परशुरामकल्पसूत्रम्
जीवेश्वरस्वरूपम् एवं तत्त्वानां विभागमुक्त्वा जीवेश्वरस्वरूपं वक्तुमारभते---
शरीर कञ्चुकितः शिवो जीवो निष्कञ्चुकः परशिवः॥ एवं षट्त्रिंशत्तत्त्वानामपि सामान्यरूपेण पुनर्द्विस्वभावत्वं-केषुचित् केवलदृश्यत्वं केषुचित् केवलद्रष्टुत्वमेव । आद्यं जडेषु, द्वितीयं केवलमिति ॥
ननु जीवस्य तत्त्वान्तःपातित्वात् परशिवस्यातथात्वात् द्वयोर्भेद आयातः । एवं सति कथमद्वैतसिद्धान्तः तान्त्रिकाणाम् ? अत आह--शरी रे ति । अयं भावः--सर्वस्वतन्त्रः परशिवः स्वस्य मायया दुर्घटया स्वनिष्ठं यदन्यानपेक्षत्वरूपं पूर्ण स्वातन्त्र्यं तदाच्छादयति । ततस्तिरोहितं यत्स्वातन्त्र्यं परिमितं स्वातन्त्र्यं तदाणवमलमुच्यते । आणवमलमेव अविद्येत्यप्युच्यते ॥
ननु पूर्णस्वातन्त्र्यं स्वीयं स्वयमेव कथमाच्छादयति इति चेत्-उच्यते । यथा सूर्यः स्वमयूखैरेव सृष्टैः मेघैः स्वयमावृतो भवति एवमेव स्वाविद्यया स्वस्यावरणे बाधकाभावात् । तथा च औपाधिको भेदो न वास्तवः । तथा च नाद्वैतहानिः इति भावः ॥
ननु अपरिच्छिन्नचित्स्वरूपपरशिवः कथं परिच्छिन्नेन आणवमलेन तिरोहित इति चेत्—इत्थम् । मायायाः सामर्थ्यमनिर्वचनीयम् । अतो न तत्र अघटितघटनायामपि कथंभावशङ्का अस्ति । अत एवोक्तम्--
दुर्घटेकविधायिन्यां मायायां किमसंभवि ॥ इति ॥ सुभगोदयेऽपि
मायाविभिन्नबुद्धिनिजांशभूतेषु निखिलभूतेषु ।
नित्यं तस्या निरंकुशविभवं वेलेव वारिधिं रुन्धे ॥ इति ॥ एवं आणवेन मलेन छन्नः तदा स्वयमणुदेहपरिमितः सन् अन्यान् देहपरिमितान् अनन्तान् जीवान् स्वभिन्नत्वेन पश्यति । तन्मायिकं मलम् । एवं भेदप्रथारूपमायिकमलेन मलिनाः शुभाशुभकर्म अनुतिष्ठन्तः तज्जनितसंस्कारवन्तो भवन्ति । 1 कंचुकितो जी-अ.
2 निष्कंचुकः शिवः-अ.