________________
प्रथमः खण्डः-दीक्षाविधिः
तदतिरिक्तत्वासिद्धेः । द्वितीय तु इष्टापत्तिरेव । एष एवार्थः उक्तः सूतसंहितायां तत्त्वलक्षणकथनपूर्वम्
आप्रळयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम् ।
तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः ॥ इति ॥ एतेन इयमाशङ्का सुतरां पराहता ॥
यद्यपि तन्त्रान्तरे प्रथमं त्रीण्येव तत्त्वानि-आत्मतत्त्वं, विद्यातत्त्वं, शिवतत्त्वं, चेति । तत्र आत्मतत्त्वं चतुर्विशतिधा क्षित्यादिप्रकृत्यन्तम् । तदसाधारणो धर्मः केवलजडत्वम् । पुरुषमारभ्य मायाऽन्तं विद्यातत्त्वं सप्तधा । तल्लक्षणं च जडत्वप्रकाशकत्वोभयवत्त्वम् । तथाहि---यथा अयःपिण्डे वह्नितादात्म्यापन्ने जडेऽपि प्रकाशकत्वं, अय:पिण्डे जडत्वं च वह्नितादात्म्यानापन्नत्वदशायां स्पष्टम् । एवं वह्नौ अय:पिण्डतादात्म्यापन्नत्वदशायां जडत्वं प्रकाशकत्वं च स्पष्टम् । तथा पुरुषे प्रकाशरूपे तत्तादात्म्यापन्नेषु जडेषु नियत्यादिषु प्रकाशकत्वं पुरुषे च जडत्वम् । नियत्यादिषु जडत्वं पुरुष प्रकाशकत्वं च स्पष्टम् । एवंरीत्या विद्यातत्त्वस्य मिश्रत्वम् । शुद्धविद्याऽऽदिशिवान्तं शिवतत्त्वं पञ्चधा । तदसाधारणो धर्मः केवलप्रकाशकत्वमित्यवान्तरविभागः कृतः । तथाऽपि तत्राप्युपसंहारवेळायां
षट्त्रिंशद्विधमेवं वै तत्त्वचक्रं महेश्वरि ।। इति यो धर्मः उक्तः स एव अत्राप्युक्तः इति न तेन साकं विरोधः ॥ वस्तुतस्तु भागवते एकादशस्कन्धे द्वाविंशेऽध्याय
कति तत्त्वानि विश्वेश संख्यातान्युषिभिः प्रभो । केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिम् ॥
सप्तके नव षट् चैके . . . . . . इत्यारभ्य उद्धवप्रश्ने स्वमते अष्टाविंशतितत्त्वानि प्रतिपाद्य श्रीभगवान् सप्तादिविरुद्धसंख्यावादिनां मतानामुपपत्तिं कृत्वा
इति नानाप्रसंख्यानं तत्त्वानामृषिभिः कृतम् ।
सर्व न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् ॥ इत्युवाच । इदमेवात्र समाधानं द्रष्टव्यम् ॥ ४ ॥