________________
२२
परशुरामकल्पसूत्रम्
तदुक्तं शक्तिसूत्रभाष्ये परमशिवो जगत् कवळयन्नपि न सार्वात्म्येन, अपि त्वंशेन संस्कारात्मना तत् स्थापयति" इति । स एव संस्कारः ईश्वरसिसृक्षायां सहकारिभूतः, अन्यथा वैषम्यनैर्धृण्यापतेरनिवारणात् । एवं स्थिते लोके दम्पत्योः सामरस्ये विधिबिलस्थितशुक्लबिन्दोरंश: योनिं प्रविश्य रक्तबिन्दुना सह एकीभावं प्रामोति यदा तदा बाह्याभ्यन्तर'भानविहीनं केवलं ब्रह्मैव भासते । तस्य गर्भोत्पादकत्वं दृष्टम् । तथा सृष्टिप्राकाले शिवशक्त्योर्योगोऽपि प्राण्यदृष्टवशात् भवति ॥ ३ ॥
66
षट्त्रिंशत्तत्वानि
तदेव प्रपञ्चयितुं तत्त्वजालं व्यष्टुमुपक्रमते
षट्त्रिंशत्तत्त्वानि विश्वम् ॥ ४ ॥
तदित्थं केवल निजरूपेण अवस्थितस्य यदा " बहु स्यां प्रजायेय " इति इच्छाज्ञानक्रियाऽऽत्मिकाः शक्तय: ताभिर्योगे क्रमेण अर्थशब्दसृष्टी अङ्कुरच्छायावत् युगपद्भवतः । ननु इच्छाज्ञान क्रियाशक्तीनां सादित्वेन अनित्यत्वापत्तिरिति चेत् — इष्टापत्ति: । तत्त्रितयकारणीभूता सूक्ष्मरूपा शान्तानाम्नी, तस्या एव परशिवरूपाया नित्यत्वात् । तथा च तादृशसिसृक्षारूपोपाधिविशिष्टः परमशिव एव केवल शिवपदवाच्यो भवति । स एव तत्त्वानां मध्ये आदिमः ।
सा पूर्वोदिता सिसृक्षा प्रपञ्च वासनारूपा शक्तिरिति द्वितीयं तत्त्वम् । तदुक्तं रत्नत्रयपरीक्षायाम्
कर्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादिकृत्ये
धर्मः पुंरूपमाद्यात् सकलजगदुपादानभावं बिभर्ति । स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः प्रोक्तौ धर्मप्रभेदावपि निगमविदां धर्मिवाकोटी ॥ इति ॥
पूर्वोक्ततादृशजगतः अहन्तया यद्दर्शनं तदहमिति तादृशस्पष्टवृत्तिमान् सदाशिवपदवाच्यः तृतीयं तत्त्वम् ।
1 भाव - ब..