________________
-दीक्षाविधिः
२१
66
' तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्" इत्येवकारोऽपि श्रुतौ अमुमेवार्थमाह । इममेवार्थं द्योतयितुं भगवत्या स्वात्मा भिन्न येति विशेषणद्वयम् । भैरव्याभैरवीशब्दार्थश्व जगतो भरणाद्रमणात् प्रलये परमशिवकुक्षिस्थितस्य सृष्टिसमये वमनाच्च भैरवीति ज्ञेयम् । तया पृष्टः प्रश्नमवतारितः । इदं पूर्ववर्तिपरम शिवभट्टारक इत्यस्यैव विशेषणम् । पञ्चभिः मुखैः सद्योजात - वामदेव अघोर तत्पुरुष - ईशानसंज्ञकैः पञ्चाना यान् पूर्वाम्नाय-दक्षिणाम्नाय-पश्चिमान्नायोत्तराम्नायोर्ध्वाम्नायनामकान् । आम्नायशब्दो वेदे यद्यपि मुख्यः, श्रुतिः स्त्री वेद आम्नाय : " इति कोशात् । तथाऽपि आम्नायसारप्रतिपादकत्वात् अत्रापि आम्नायशब्दः उपचर्यते एतेन केषांचित् तन्त्राणि वेदवत् स्वतन्त्रप्रमाणानीति मतमपास्तम् । परमार्थः अकृत्रिमस्तुरीयपुरुषार्थः तस्मिन् 'सारभूतान् अभ्यर्हितान् । एतेन पुरुषस्य विशेषेण अभिलषणीयत्वं अतिगोप्यत्वं च सूचितम् । निखिलवेदार्थ ग्रहीतुं अशक्तान् प्रति कृपया शिवः तत्सारभूतमर्थं गृहीत्वा पञ्चान्नायान् प्रणिनाय निर्ममे ॥ २ ॥
66
प्रथमः खण्डः ---
पुर सिद्धान्तप्रतिपादनम्
तत्राप्यक्षमान् मन्दतरान् प्रति परमकृपालुः श्रीपरशुरामः तत्रत्यानर्थान् संगृह्य वक्तुं प्रक्रमते
तत्रायं सिद्धान्तः ॥ ३॥
तत्र पञ्चान्नायेषु अयं वक्ष्यमाणः सिद्धान्तः विचार्यवादजनितनिर्णयविषयोऽर्थः ॥
एतदन्तेन ग्रन्थेन वक्ष्यमाणसिद्धान्तार्थस्य स्वकपोलकल्पितत्वप्रयुक्ताप्रामाण्यशङ्का निरस्ता ॥
अयं भावः — यस्मिन् काले इदं विश्वं परशिवकुक्षिस्थं सूक्ष्मरूपेण तिष्ठति स एव प्रळयः । ईदृशप्रळयश्च शास्त्रैकवेद्यः । एवमेव सृष्टिरपि । तत्र प्रळयो नाम परब्रह्मणः केवलनिजस्वरूपेण अवस्थानं जीवस्य सुषुप्ताविव । तदानीं जीवराशिः तददृष्टं पञ्चभूतानि सर्वाणि वटबीजे वटवृक्ष इव सूक्ष्मरूपेण तिष्ठन्ति ।
1 साररूपान् — ब.
CENTRAL
ENKATESWARA
BRARY &
TIRUPATI. 19653
IN
RESEARCH
CENTRE,