________________
परशुरामकल्पसूत्रम्
तन्त्रप्रणयने प्रयोजनविशेषः ननु अष्टादशसु विद्यासु सतीषु पुनराम्नायप्रणयनं व्यर्थ, अत आह--- सं विन्म य्ये ति । अयमभिप्राय:--पुरुषार्थः सुखं, तच्च नैसर्गिकं कृत्रिमं चेति । नैसर्गिकं मोक्षरूपम् । कृत्रिमं यस्तृतीयपुरुषार्थः कामः इत्युच्यते । उभयोः साधनं धर्मः । तस्यापि साधनमर्थः । एवं साक्षात् परंपरया वा पुरुषैरभिलषणीया अर्थाश्चत्वारः । तत्र कृत्रिमपुरुषार्थसाधनान्येव अष्टादशविद्याभिः प्राकटयेन प्रतिपादितानि । अकृत्रिमपुरुषार्थो यः तत्साधनं अकृत्रिमं स्पष्टं न प्रतिपादितम् । कृत्रिमोपदेशश्चाकिंचित्करो लोकानामिति जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्घराम्नायविद्यां प्रणिनाय । यद्वा-निखिलवेदार्थानभिज्ञानां तत्रानधिकारिणां च मुक्त्युपायं निखिलवेदसारामाम्नायविद्यां प्रणिनाय । तत्रापि संवित् अपरिच्छिन्नं चैतन्यं, प्रकाश इति यावत्, तन्मय्या तदभिन्नया । एतेन विमर्शाशेन स्वात्मानं पृच्छतीत्यर्थः सिद्धः । तदुक्तं रत्नत्रयपरीक्षायामप्पयदीक्षितैः--
नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं ___ धर्मो धर्मीति भेदद्वयमिति च पृथग्भूय मायावशेन । धर्मस्तत्रानुभूतिस्सकलविषयिणी सर्वकार्यानुकूला
शक्तिश्चेच्छाऽऽदिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव ॥ इति ॥ ननु जीवानां अस्मदादीनामपि संविन्मयत्वं अस्त्येवेति श्रीभैरव्या जीवेभ्यः को विशेषः इत्यतः आह भ ग व त्ये ति विशेषणम् । भगवच्छब्दार्थश्च व्याख्यातः पूर्वम् । तथा च जीवादिवदाणवादिमलैरावृतज्ञाना सती न पृच्छति, किंतु सर्वज्ञाऽपि केनचिदभिप्रायेण गूढेन पृच्छतीति भगवच्छब्दो ज्ञापयति । तथा हि-शिवः प्रकाशरूपः स्वयमेव विमर्शो भूत्वा प्रश्नमवतारयति । तत्र प्रयोजनमिदं --विद्वान् समर्थोऽपि पुस्तकवाचनादिना संपन्नज्ञानो न कृतार्थों भवितुमर्हति, किं तु गुरूपदिष्टमार्गेणैवेति ज्ञापयितुं स्वस्वरूपान्तरं गृहीत्वा प्रश्नः । तदुक्तं स्वच्छन्दतन्त्रे
गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपरैर्वाक्यैस्तन्त्रं समवतारयत् ॥ इति ॥