________________
प्रथमः खण्डः-दीक्षाविधि: भट्टार क इति । राजेत्यर्थः । यथा राज्ञः स्वस्य अनपेक्षितेऽपि परेषां हिताय कृतिर्दृश्यते तद्वत् । श्रुत्या द्य ष्टा द श वि द्याः--श्रुतिः आदिः यासामिति तद्गुणसंविज्ञानबहुव्रीहिः । तथा च श्रुतयः चत्वारि, तदङ्गानि शिक्षा व्याकरणं कल्पः छन्दः ज्योतिषं निरुक्तं चेति षट् , मीमांसा, न्यायः, पुराणं, धर्मशास्त्रं, इति चतुर्दशविद्याः । आयुर्वेदः, धनुर्वेदः, गान्धर्व, नीतिशास्त्रं, चेति चतस्रः । एवमष्टादशविद्याः । स वा णि दर्श ना नि शाक्तदर्शनादीनि । दृश्यते अनेनेति दर्शनं ज्ञानसाधनं शास्त्रमित्यर्थः, शक्तिदर्शनशास्त्रमिति यावत् । एवमेवाग्रेऽपि । शैवदर्शनं वैष्णवदर्शनं ब्राह्मदर्शनं सौरदर्शनं बौद्धदर्शनं चेति षड् (?) दर्शनानि । ली ल या अनायासेन तत्त द व स्था ऽ ऽ पन्नः, ईश्वरावस्थाऽऽपन्नो वेदान् , पाणिनिव्यासादिस्वरूपान् गृहीत्वा व्याकरणपुराणादीनि प्रणी य निर्माय ॥
वेदस्य पौरुपयत्वसमर्थनम् ननु वेदस्य नित्यत्वेन अपौरुषेयत्वात् ईश्वरनिर्मितत्वं कथम् ? न च तस्य नित्यत्वमेव असिद्धमिति शङ्कयम् ; “वाचा विरूपनित्यया" इति श्रुतेरिति चेत्-.-न । वेदास्तु ईश्वरेण निर्मिताः, “ छन्दासि जज्ञिरे तस्मात्' इति श्रुतेः,
अष्टादशानामेतासां विद्यानां भिन्नवर्त्मनाम् ।
आदिकर्ता' शिवः साक्षाच्छूलपाणिमहेश्वरः ॥ इति स्मृतेः । वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत् इत्यनुमानस्यापि प्रमाणत्वात् । अत एव " ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां" इति श्रुतौ ईशानत्वं कर्तृत्वरूपमेव । नच तस्य पौरुषेयत्वे पुरुषदोषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवानां संभवात् अप्रामाण्यशङ्काऽऽस्पदत्वं स्यादिति वाच्यम् ; ईश्वरे दोषसाधनानामविद्याऽऽदीनामभावेन दोषासंभवात् । एतेन तन्त्राणामपि नित्यत्वं प्रत्युक्तम् । “ वाचा विरूपनित्यया" इत्यत्र नित्यत्वं दोषवत्पुरुषाप्रणीतत्वरूपं गौणं कल्प्यं उक्तप्रमाणकलापानुरोधेन । न च वैपरीत्ये किं विनिगमकं इति वाच्यम् ; भूयोऽनुग्रहस्य न्याय्यत्वात् । तस्मात् सर्वा अपि विद्याः पुरुषप्रणीता एव ॥
1 कविः
सा-अ.