________________
__१८
परशुरामकल्पसूत्रम् अत एव हिरण्यकेशिसूत्रव्याख्याने “ यज्ञं व्याख्यास्यामः" इत्यत्र एतादृशानुपपत्त्यैव यज्ञशब्दे अजहत्स्वार्था वृत्तिरङ्गीकृता वैजयन्तीकृता ॥ १ ॥
त्रैपुरसिद्धान्तस्य परमशिवकर्तृकत्वम् तत्र दीक्षायां तदङ्गत्वेन त्रैपुरसिद्धान्तं श्रावयेदित्यस्ति । तत्र को नाम त्रैपुरसिद्धान्तः ? तस्य कुतः प्रामाण्यं ? इत्याकाङ्क्षायां तत्रादौ तादृशसिद्धान्तम्य शिवोदितत्वेन प्रामाण्यं इति वक्तुं भूमिकां रचयति
भगवान् परमशिवभट्टारकः श्रुत्याद्यष्टादशविद्याः सर्वाणि दर्शनानि लीलया तत्तदवस्थाऽऽपन्नःप्रणीय, संविन्मय्या भगवत्या भैरव्या स्वात्माभिन्नया पृष्टः पञ्चभिः मुखैः पञ्चाम्नायान् परमार्थ'सारभूतान् प्रणिनाय ॥२॥
अत्र प्रतिपादितविद्यासु अप्रामाण्यशङ्कास्पर्शोऽपि मा भवतु इत्येतदर्थ भ ग वा निति ।
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृतः ॥ इत्येतादृशषड्गुणैश्वर्यसंपन्नो भ ग वा न् । ननु परमशिवः तत्त्वातीतः, तस्य विद्याकर्तृत्वं न संभवति उपाधिशून्यत्वात् इत्यत आह--भट्टा र क इति । राजेत्यर्थः, “ राजा भट्टारको देवः” इति कोशात् । जगदीश्वरत्वरूपधर्मवान् मायोपाधिकः इति तदर्थः । यद्वा-भट्टारको जगद्रूपनाट्यरञ्जकः, भट्टारकशब्दस्य प्रसन्नराघवनाटके नाट्यरञ्जके, “रे भट्टारक” इति संबोधनात् , “ राजा भट्टारकः” इत्यस्य नाट्यवर्गस्थत्वाच्च । तस्य यथा जगत्कर्तृत्वं तथा विद्याकर्तृत्वमपि संभवत्येव । यद्वा-~-ईश्वरम्य परमशिवस्य पूर्णत्वेन कर्तव्यवस्तुनोऽभावात् कथं विद्याकर्तृत्वं ? अत आह
1 साररूपान्–ब.