________________
प्रथमः खण्डः - दीक्षाविधिः
इति रहस्यार्णववचनम्, एवं रुद्रयामळादिबहुतन्त्रेषु कलौ कर्तव्यत्वोपलब्धेः - बहुवचनानुसारेण ब्राह्मपुराणस्थवचनं कलावतिसावधानेन इन्द्रियादीन् जित्वा कर्तव्यतां प्रतिपादयति । अत एव ब्राह्मवचनावसाने कलौ न कर्तव्यं इति नोक्तम् । किंतु “ इमानि लोकगुत्य कलेरादौ महात्मभिः निवर्तितानि” इति निवृत्तेः फलं लोकोपकार उक्तः । उपकारश्चेत्थम् । यः कश्चन जितेन्द्रिय: इमे धर्माः अवश्यं कर्तव्याः इति शास्त्रे भारं निक्षिप्य प्रवृत्तश्चेत् अन्योऽपि रागान्धो रागं पुरस्कृत्य प्रवृत्तश्चेत् पतेदेवेति तदनुग्रहायैव त्यागः । [न] " नैकादश्यां भोजनं कार्ये " इतिवनिषेधपरः । इममेवार्थं श्रीशिवः तन्त्रेषु प्रकटितवान् — परमानन्दतन्त्रे
असिधाराव्रतसमो मनोनिग्रहहेतुकः । स्थिरचित्तस्य सुलभः सफलस्तूर्णसिद्धिदः ।
अन्यस्य विफलो दुःखहेतुः स्यात् परमेश्वरि ॥ इति ॥
त्रिपुरार्णवेऽपि
इतो मद्यमितो मांस भक्ष्यमुच्चावचं तथा । तरुण्यश्चारुवेषाढ्या मदारुणविलोचनाः । तत्र संयतचित्तत्वं सर्वथा ह्यतिदुष्करम् । भक्तिश्रद्धाविहीनस्य कथं स्यादेतदीश्वरि ॥ इति ॥
तस्मात् कलियुगेऽपि संयतेन्द्रियाणां दीक्षायां न किमपि बाधकम् ॥
3
१७
दीक्षायाः प्रथमसोपानत्वम्
ननु दीक्षां व्याख्यास्यामः इत्यनुचितं यस्य व्याख्यानं प्रतिज्ञातं तस्यैवाग्रे कथनीयत्वेन दीक्षाभिन्नानां गणेशश्रीविद्योपास्त्यादीनां बहूनां कथनेन संदर्भविरोधात् इति चेत् — उच्यते । अत्र श्रीललिताभक्तिसाधनीभूतक्रियामात्रं अजहत्स्वार्थवृत्त्या अर्थः । अत्र दीक्षापदोच्चारणं च दीक्षायाः सर्वादित्वज्ञापनार्थम् । एतेन अदीक्षितेन उपास्तिर्न कार्येति तदभिप्रायः । अत एव परमानन्दतन्त्रे
मुक्तिसौधस्य सोपानं प्रथमं दीक्षणं भवेत् ॥ इति ॥