________________
१६
परशुरामकल्पसूत्रम्
वाच्यम् । भगवत्पादानां वैदिक एव पक्षपातो न तदन्यस्मिन् । तथाऽसति बुद्धादिशास्त्रानुसार्यपि निबन्धरचनं स्यात् । किं च स्वकृतमानसपूजायाम्—
मन्त्रांस्तान्त्रिकवैदिकान् परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात् त्वमङ्गीकुरु ॥
इति लोके तान्त्रिकवैदिकयोः समुच्चयलेखनेन तान्त्रिकत्वं वैदिकत्वमविरुद्धं तदभिप्रेतं सुस्पष्टम् । तस्मात् वैदिकैः इदं व्याख्येयं कल्पसूत्रम् ॥
तन्त्रानुष्ठानस्य कलिवर्ज्यत्वशंकानिरासः
ननु ब्राह्मणानां भवतु तन्त्रे अधिकार:, तथाऽपि न कलियुगे । तदुक्तं ब्राह्मे कलिवर्ज्य गणनावसरे
श्रीमद्भागवते
मन्त्रदीक्षा च सर्वेषां कमण्डलुविधारणम् । महाप्रस्थानगमनं गोसंज्ञप्तिश्च गोसवे ||
इत्येतेषां कलियुगे वर्ज्यत्वश्रवणात् पूर्ववचनानि सर्वाणि कृतादिपरत्वेनोपसंहार्याणि । न च निषेधस्य प्राप्तिमुपजीव्यैव प्रवृत्तेः पूर्ववचनैः प्राप्तौ अनेन निषेधे तुल्यबलत्वेन " न तौ पशौ करोति" इति दाशमिक चरमपादन्यायतुल्यत्वेन विकल्प एव किं न स्यात् इति वाच्यम् । यदि निषेधो भवेत् तर्हि विकल्पो भवेत् । नायं निषेधः । किंतु " यजतिषु येयजामहं करोति नानूयाजेषु " इतिवत् । " दीक्षां कुर्वीत मतिमान् ” इति वचनं कलौ " मन्त्रदीक्षा न कर्तव्या " इति वचनं तयोरेकवाक्यतायां क्रियमाणायां कलिभिन्ने कर्तव्यमिति पर्युदाससंभवेन विकल्पानवकाशात् इति चेत् — मैवम् । ब्राह्मे भूरिपुस्तकेषु ' मन्त्रदीक्षा च सर्वेषां ' इति नोपलभ्यते । अतोऽल्पपुस्तकेषु उपलभ्यमान ईदृशपाठोऽप्रामाणिक एव । यदि च प्रामाणिक इत्याग्रह: तथाऽपि — लैङ्ग
"
कलावाराधनं शंभोरागमेनैव नान्यथा ॥ इति ॥
'कलियुगे तन्त्रेणैव पूजा कर्तव्या" इति वचनं पूर्वत्रैवोदाहृतम्, कलौ युगे महादेवि ब्राह्मणाद्यैः सुपूजिता ।
66