________________
प्रथमः खण्डः-दीक्षाविधिः
उपासनाधिकारस्य स्वान्तःकरणैकवेद्यत्वम् एतादृशभक्तिभूमिकाऽधिकारः स्वान्तःकरणैकवेद्यः न परेषां प्रत्यक्षः, न वा दशाविशेषेण वा वयोविशेषेण वा अनुमातुं शक्यः, तेषां व्यभिचारस्य दर्शनात् , प्रह्लादध्रुवादीनां बाल्य एव ईदृशभूमिकाप्राप्तिदर्शनात् । क्वचिद्धत्वाभासेनानुमितिः । सा प्रमाऽपि भवितुमर्हति कदाचित् । यथा अगस्त्यसंहितायां विरूपाक्षं प्रति तत्कन्याप्रश्ने ब्राह्मणवाक्यम् ---
अयि पुण्यनिधे पुत्रि प्राक्तनैः पुण्यसंचयैः । त्रिवर्षाऽपि समारूढा भक्तिभूमि सुदुर्लभाम् ।
गौरीबीजं जगबीजं मत्तः प्राप्नुहि सुव्रते ॥ इत्यनुमित्यैव कन्यकाभूमिज्ञानात् । मन्थानभैरवतन्त्रेऽपि अनुमानं कर्तव्यमिति विधिरस्ति--
एकद्वित्रिचतुःपञ्चवर्षाण्यालोच्य योग्यताम् । भक्तियुक्तान् गुणांश्चापि क्रमावर्णे ससंकरे ।
पश्चादुक्तक्रमणैव वदेद्विद्यामनन्यधीः ॥ इति ॥ तथाऽप्यनुमितेः विसंवादिप्रवृत्तेः कदाचित्संभवात् दीक्षाग्रहणे यः प्रवर्तते सः म्वाधिकार सम्यग्विचार्यैव प्रवृत्तिं कुर्यात् । अन्यथा अनधिकारी सन् यदि प्रवर्तेत तर्हि शूद्रेण वेदाध्ययने कृते यत्फलं तदेव अस्यापि स्यात् , अनधिकार्यनुष्ठितत्वस्य तुल्यत्वात् । अतोऽधिकारं स्वचेतसा विचार्य निरुक्तभूमिकामारोढुं यो योग्यः स एव ब्राह्मणः क्षत्रियः वैश्यः शूद्रः संकरजातीयः स्त्री यो वा को वा संसारे न निर्विणः न चासक्तः जितेन्द्रियः स एव अधिकारी, न श्रुतिपथगळितः अधिकारी इति सिद्धम् ॥
कल्पसूत्रस्य वैदिकैर्व्याख्येयत्वम् अत एव श्रीशंकरभगवत्पादानां तन्त्रानुसारिप्रपञ्चसारनामकनिबन्धनिर्माणमपि साधु संगच्छते । न च वेदपथगळितोपरि यथा कृपया शिवेन तन्त्राणि निर्मितानि तथा तदुपरि कृपयैव भगवत्पादैः निर्मितमिति वक्तुं शक्यते, नेदं साधकमिति