________________
परशुरामकल्पसूत्रम्
इष्टं दत्तं हुतं जप्तं मदर्थे यद् व्रतं कृतम् ।
एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ इति ॥ भक्तिसाधनत्वादेवोपास्तौ श्रीभास्कररायैः सेतुबन्धेसेतुबन्धे भक्तिद्विविधा, गौणी मुख्या चेति । तत्राद्या सगुणब्रह्मणः ध्यानार्चनजपनामकीर्तनादिरूपा संभवत्समुच्चायिका । परभक्तिस्तु एतज्जन्यानुरागविशेषरूपा " इति कथितम् । एतादृशी भक्तिश्च सगुणब्रह्मण्येव संभवति । एतादृशं सगुणब्रह्म स्वोपासकानुरागानुसारेण रामकृष्णादिनानास्वरूपं लभते । तत्तत्स्वरूपभक्तिसाधनान्येव प्रतिपाद्यन्ते तन्त्रेषु पुराणेषु च । तन्मूलभूताः श्रुतयः उपनिषत्संज्ञकाश्चोपलभ्यन्ते नृसिंहतापिनीरामतापिन्यादिरूपाः, सुन्दरीविषये त्रिपुरोपनिषद्भावनोपनिषदित्यादयः । तत्प्रतिपाद्य परब्रह्मणः शाब्दनिश्वये जाते सति तदा संसारे नात्यन्तमासक्तिः नाप्यत्यन्तमनासक्तिर्भवति । स च भक्तिसाधनोपास्तावधिकारी । एतादृशाधिकारप्राप्तिश्च भक्तिभूमिकाऽऽरुरुक्षुत्वं च नाल्पपुण्येन, किन्तु अनेककोटिजन्मसाधितसुकृतलभ्यम् । तत्रापि सुन्दरीभतिस्ततोऽपि दूरतरा । तदुक्तं ब्रह्माण्डपुराणे-
१४
यस्यान्यदेवतानामकीर्तनं जन्मकोटिषु ।
तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ इति ॥
स्थलान्तरेऽपि—
श्रुतिरपि
यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी । मोक्षैकहेतुर्विद्या च श्रीविद्या नात्र संशयः ॥ इति ॥
अश्रुताः श्रुतासश्च । यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमचिये विदुः । सिकता इव संयन्ति । रश्मिभिस्समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात् पृश्निभिः ||
इति तैत्तिरीयारण्यके ।