________________
प्रथमः खण्डः---दीक्षाविभिः इति भक्तिप्राप्तिर्भविष्यतीति वरदानेन म्मृतिर्ममास्त्विति भक्तियाच्चैवेति ज्ञायते । न हि घटं याचतः पटदानं युक्तम् । तस्मात् अनुस्यूतभगवत्स्मृतिः भक्तिः, सैव निरुपाधिकी प्रीतिरित्यपि व्यवह्रियते इति पौराणिकाः ।
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । इति श्रीभगवद्वचनमपि अखण्डश्रीभगवत्स्मृतिपरम् । युक्तं चैतत् , श्रीभागवते अस्यैवार्थम्योक्तत्वात् । तथाहि
देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् । सत्व एवैकमनसा वृत्तिः स्वाभाविकी तु या ।
भक्तिभागवती सैव . . . . . . . . . . . ॥ इति ॥ गुणाः विषयाः लिङ्गयन्ते ज्ञायन्ते यैस्तेषां इन्द्रियाधिष्ठातृदेवानां सत्वमूर्ती हरावेव या वृत्तिः अनिमित्ता निष्कामा म्वाभाविकी अयनसाध्या सा भक्तिरित्यर्थः । अनुश्रवो वेदः तदुदितं कर्म आनुश्रविकं कर्म येषामिति देवविशेषणम् । एतेन भक्तौ प्रयोजकं आनुश्रविकं कर्मति सूचितम् । अतो भगवदाकारा मनोवृत्तिरव भक्तिरिति सिद्धम् । एवं अथातो भक्तिजिज्ञासा ". " सा पराऽनुरक्तिरीश्वरे", इति शाण्डिल्यसूत्रम् ॥
उपासनस्य भक्तिसाधनत्वम्
एतादृशभक्तिभृमिकामाहरुक्षुः तत्साधनीभृतां भगवदुपास्ति कुर्यात् । उपाम्ति म भगवदुद्देशेन निप्कामं सर्ववस्तुत्यागः, भगवत्कथाश्रवणं, भगवन्मन्त्रजपः, भगवन्नामस्तोत्रकीर्तनमित्येतदन्यतमम् । एतस्य भक्तिहेतुत्वं श्रीमद्भागवते ---
पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् । श्रद्धाऽमृतकथायां मे शश्वन्मदनुकीर्तने । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ।
आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् । मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च ।