________________
परशुरामकल्पसूत्रम्
शुद्धचित्तस्यैव सुन्दरीविद्याऽधिकार: वैदिकैाह्यत्वेऽपि न सर्वेषां वैदिकानामत्राधिकारः । यथा ब्रह्मस्वरूपस्य उपनिषद्भागरूपवेदप्रतिपाद्यत्वेऽपि तज्जिज्ञासायां न सर्वेषामधिकारः, किंतु साधनचतुष्टयसंपन्नानां वैदिकानामेवाधिकारः, तथाऽत्र केषां चिदेवाधिकारः । तथा हि ब्राह्मणस्य उपनयनाद्यारभ्य प्रथमभूमिका स्वाध्यायाध्ययनम् । तदनन्तरं “ स्थाणुरयं भारहारः किलाभूत्' इति अनर्थज्ञे निन्दा, “ योऽर्थज्ञ इत् सकलं भद्रमश्नुते' इत्यर्थज्ञाने फलं च श्रुत्वा अर्थज्ञानसिद्धयर्थं काव्य निगमनिरुक्तव्याकरणन्यायानधीत्य पूर्वमीमांसाऽऽद्यभ्यस्य वेदार्थ ज्ञात्वा " न ज्ञानमात्रेण कृतार्थतामियात् " इति स्मृत्या अर्थ ज्ञात्वा कर्माननुष्ठातरि निन्दां श्रुत्वा अनुष्ठानभूमिकामारूढो निखिलस्मृतिश्रुत्युदितं कर्म बहुजन्मस्वनुतिष्ठन् तैः कर्मभिः परिशुद्धचित्त: संसारे नात्यन्तमासक्तो नाप्यत्यन्तमनासक्तश्च यदा भवति तदा भक्तिभूमिकाऽऽरोहणयोग्यो भवति । तदुक्तं भागवते
न निर्विष्णो न चासक्तो भक्तियोगोऽस्य सिद्धिदः ॥ इति ॥ यदा न निर्विण्णः न चासक्तः, भक्तियोगः तदा सिद्धिदः इत्यर्थः । तादृशभक्तिभूमिकामनारुह्य न कदाऽपि परमपुरुषार्थलाभः । तदुक्तं श्रीमद्भागवते-
अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ इति ॥
भक्तिस्वरूपम् तत्र भक्तिर्नाम आराध्यत्वप्रकारकज्ञानविशेषोऽनाहार्यः स्वाभाविकः इति नैय्यायिकाः । भक्तिर्नाम भगवद्विषयिणी अन्तःकरणस्य तदाकारतया परिणामात्मिका वृत्तिः । तत्र प्रमाणम्
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्माप सर्पतु ॥ इति भगवद्विषयप्रीतियाच्ञायां प्रह्लादं प्रति श्रीभगवद्वाक्यम्--
भक्तिर्मयि तवास्त्येव भूयोऽप्येवं भविष्यति ॥