________________
प्रथमः खण्डः -- दीक्षाविधिः
११
पूर्व वेदमार्ग विनिन्द्य " तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं न संशयः " इति सर्वेण निन्दाप्रशंसारूपविशिष्टार्थवादेन मिळित्वा वेदमार्गाचरणं कर्तव्यं इत्येकविधिकल्पने लाघवम् । पूर्वपक्षे निन्दया तान्त्रिककर्मणः समुच्चयः, “ तस्माद्वेदोदित " इति स्तुत्या वैदिककर्मणो विधिः कल्प्य इति गौरवं स्यात् । पूर्वोक्ताझिपुराणवचनं पाद्मं च तन्त्रविशेषपरं, पूर्वोक्तयुक्तेः । अत एव " तन्त्रेषु दीक्षितः " इत्यादिवचनानि निन्दा - रूपाणि वैदिकप्रशंसापराणि इति श्रीविद्यारण्यस्वामिभिरपि तत्रैव व्याख्यातम् । एवमेव भट्टपादैः योगस्य निरस्तप्रामाण्यस्यापि विषयान्तरं सुधीभिरुम् । अप्रकृतत्वात् ग्रन्थविस्तरभयान्नेह लिख्यते । भट्टपादोक्त्यपेक्षया पुराणानां तन्त्राणां च प्रामाण्यं वरिष्ठम् । अतो दुर्बलप्रमाणस्य प्रबलप्रमाणानुसारेण संकोचो युक्त एव । अन्यथा तस्मिन्नेव अधिकरणे " अष्टाचत्वारिंशद्वर्षाणि ब्राह्मणो ब्रह्मचर्यं चरेत् " इति स्मृतिः, .. जातपुत्रः कृष्णकेशोऽनीनादधीत " इति श्रुतिः, अनयोर्विरोधः, इत्थम् — नाष्टाचत्वारिंशद्वर्षानन्तरं विवाहे जातपुत्रः कृष्णकेशश्च पुरुषः प्रसिद्धोऽग्न्याधानाधिकारी । अतो द्वयोर्विरोधे प्रबलश्रुत्यनुसारेण स्मृतिस्थब्राह्मणपदं अन्धादिपरम् । तस्याग्रिमश्रौतकर्मानधिकारित्वेन श्रुत्यविरोध इति तैरेव प्रतिपादितो ग्रन्थो विरुध्येत । तस्माद्वैदिकानां शाक्तगाणेशादितन्त्रप्रतिपादितकर्मस्वधिकार इति भट्टपादानामस्त्यभिप्राय इति पूर्वयुक्तिभिः सिद्धम् । एतेन भट्टोजिदीक्षितलिखिततन्त्रप्रामाण्यखण्डनमपि पराहतं ऊह्यं सूरिभिः । पुराणवचनानामपि व्यवस्थोक्तैव । यच्चोक्तं दृष्टैकप्रयोजनकत्वं मपञ्चकस्वीकारविधायकशास्त्रस्य लोभमूलतया प्रणीतत्वं चेति, तच्च " अग्नीषोमीयं पशुमालभेत " इति, “ सुराग्रहा गृह्यन्ते " इत्यत्रापि वेदे तुल्यम् । नहि इदं प्रमाणं इति श्रद्धामुत्सृज्य प्रामाण्यव्यवस्थां कर्तुं ब्रह्मापि समर्थः । अतो वैदिकानां पूर्वसंस्कारवशात् उत्पन्नो ' वेदः प्रमाणं ' इति श्रद्धाविशेष एव प्रामाण्यव्यवस्थापकः प्रथमः । ततश्च तदविरुद्धानामेव तन्मूलकतया प्रामाण्यं तद्विरुद्धं तु वैदिकस्य अप्रमाणमेव । किंच — श्रीसुन्दरीतन्त्राणि तु यथा तैत्तिरीयशाखाशेषभूतानि बोधायनापस्तम्बादिषट्सूत्राणि प्रमाणं तथा सुन्दरीतापिनीपञ्चकभावनाकौळोपनिषच्छेषाणि तद्वयाख्यानरूपाणि न स्वकपोलकल्पितानि । अतोऽपि वेदव्याख्यानरूपत्वान्निःशङ्कं वैदिकैः परिगृहीतव्यानि । मपञ्चकादिसेवनस्य यथा वेदाविरुद्धता तथा उपरिष्टात् वक्ष्यामः ॥
5