________________
१०
परशुरामकल्पसूत्रम् तस्मात् श्रुतिपथगळितानामिति वचनं जङ्गमादिलिङ्गधारिपरम् । एवं मुक्तिखण्ड स्थपूर्वोक्तात्यन्तगळितानामिति वचने “पाञ्चरात्रादयो मार्गाः” इति आदिपदे शैवागमस्य जङ्गमपरिगृहीतस्य ग्रहणं, न ज्ञानार्णवकल्पसूत्रादीनाम् , तस्मिन वेदभ्रष्टाधिकारिकत्वस्य क्लप्तत्वेन तेन सहैकवाक्यत्वात् । यच्च शिवमाहात्म्य खण्डे “ पूजा शक्तेः परायास्तु" इत्यारभ्य
वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा ।
तान्त्रिकस्यैव नान्यम्य वैदिकी वैदिकस्य हि ॥ इति वचनं, तस्य अयमभिप्राय:-वैदिकः स्वगृह्योक्तोपनयनादिसंस्कृतः । तान्त्रिक तन्त्रोदीरितकुण्डमण्टपादिपुरस्सरं दीक्षासंस्कृतः । न तान्त्रिको नाम श्रुतिपथगळितः तस्य पूर्वमेव निरस्तत्वात् । तथा च अनेन वचनेन उपनयनादिनिमित्ते वैदिकस्नान पूजाऽऽदिनैमित्तिकम् । तन्त्रदीक्षानिमित्ते नैमित्तिकं तान्त्रिकस्नानपूजाऽऽदि विधीयते यत्रैकं निमित्तं तत्रैक केवलवैदिके । शूद्रादौ केवलतान्त्रिकम् । यत्र उभयं तः उभयानुष्ठाने न किमपि बाधकम् । अस्यैवार्थः स्पष्टीकृतः त्रिपुरार्णवे--
त्रैवर्णिकैवैदिकान्ते तान्त्रिकं क्रियतेऽखिलम् ॥ इति । इममेवाथै संक्षेपेण श्रीरामोऽप्याह-वेदतन्त्रोदितैर्मन्वैरिति । तस्मात् सर्वतन्त्रा नुष्ठानं वेदबाह्यपरमिति सिद्धान्तो वचनान्तरानवलोकनव्यामोहविलासरूप एव । पाञ्चरा त्रादीनां तु श्रुतिपथगळितमुद्दिश्यैव प्रवृत्तिः, तन्नाम गृहीत्वा आहत्य विधानात् । एवमेव कापालमपि
पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च ।
अधिकारो वैदिकानां नास्ति नास्ति मुनीश्वराः ॥ इत्यगस्त्यसंहितावचनात् । तथा च निर्णीत एवार्थे भट्टपादानामभिप्रायः । अत एव पाञ्चरात्रस्यैव तन्त्रमध्ये पृथक् नाम गृहीतम् । न तु सर्वतन्त्राणां ग्रहणं कृतं, तत्रैव वेदविरुद्धानां स्मृतिविरुद्धानां च धर्माणां भूरिश उपलभ्यमानत्वात् । न हि शाक्यादिवत् शाक्तादितन्त्रेषु वेदविरुद्धमनुष्ठानमीषदप्युपलभ्यते । यानि तु “वेदमार्गमिमं त्यक्त्वा” इत्यादिवचनानि तानि वैदिकस्य वैदिकमार्ग सर्वथा त्यक्त्वा केवलतन्त्रमार्गाश्रयणे तन्निन्दापराणि, मुक्त्वाविनेत्यादिश्रवणात् । यद्वा