________________
प्रथमः खण्डः - दीक्षाविधिः
२३
इदं जगदिति केवलं भेदविषयिणी या वृत्तिः तद्वान् ईश्वरपदवाच्यः तुरीयं
जगदहमेवेत्याकारिका या सदाशिव संबन्धिनी वृत्तिः सा विद्यापदवाच्या पञ्चमं
इदं जगदित्याकारिका ईश्वरनिष्ठा भेदविषयिणी वृत्तिः मायापदवाच्या षष्ठं
तत्त्वम् ।
तत्त्वम् ।
तत्त्वम् ।
तत्त्वम् ।
पूर्वोक्तविधा तिरोधानशक्तिमती तद्विरोधिनी अविद्यापदवाच्या सप्तमं तत्त्वम् । जीवनिष्ठं सर्वकर्तृत्वं यत्किंचित्कर्तृत्वेन संकुचितं तदेव कलापदवाच्यं अष्टमं
पूर्वोक्तरीत्या जीवनिष्ठा या नित्यतृतिः सैव केपुचिद्विषयेषु अतृप्त्या संकुचिता रागपदवाच्या नवमं तत्त्वम् ।
जीवनिष्ठा या नित्यता तस्या आच्छादने सति सैव नित्यता अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्भावयोगात् संकुचिता कालपदवाच्या दशमं तत्त्वम् ।
परशिवजीवयोः अभेदात् यथा पर शिवे सर्वस्वातन्त्र्यं तथा जीवेऽप्यस्ति तस्य सर्वस्वातन्त्र्यस्य वि[ पिधानं पूर्वोक्ताविद्यया कृतं तदेव कारणान्तरापेक्षं यत्कारणमपेक्षते तन्नियतिपदवाच्यं एकादशं तत्त्वम् ।
y
एतादृशनियतिकालरागकलाऽविद्याऽऽश्रयो जीवः द्वादशं तत्त्वम् । सत्वरजस्तमोगुणानां साम्यरूपा प्रकृतिः चित्तापरपर्याया त्रयोदशं तत्त्वम् । यदा सत्वतमसी अभिभूय रजः प्रधानं तन्मनः पदवाच्यं संकल्पहेतुश्चतुर्दशं
तत्त्वम् ।
रजस्तमसी अभिभूय सत्वप्रधानमन्तःकरणं तद्बुद्धिपदवाच्यं निश्चयहेतुः पञ्चदशं
तत्त्वम् ।
यदा रजस्सत्वे अभिभूय तमः प्रधानमन्तःकरणं तदहंकारपदवाच्यं विकल्पकारणं षोडशं तत्त्वम् ।
शब्दग्राहकमिन्द्रियं श्रोत्रं सप्तदशं तत्त्वम् ।
स्पर्शग्राहकमिन्द्रियं त्वगष्टादशं तत्त्वम् ।