________________
परशुरामकल्पसूत्रम् इत्यमरः । वा ल्क लं वृक्षत्वक्संबन्धि “ त्वक् . स्त्री वल्कलमस्त्रियां" इत्यमरः । कौ सु म स्य मधूकादिपुष्पोद्भवस्य । यथादे श सिद्ध स्य यस्मिन् देशे यद्यत्प्रकृतिकं द्रव्यं तद्वा ग्राह्यमित्यर्थः । एतेन दर्शितादन्याऽपि द्रव्यप्रकृतिरस्तीति दर्शिता । अन्याः प्रकृतयो दर्शिता योगिनीतन्त्रे
द्राक्षोद्भवा च खार्जूरी माध्वी गौडी तथाऽन्नजा । मधुपुष्पभवा वाी ख्याता सप्तप्रकारतः ।
यथोत्तरं ह्रासगुणमाद्यमाद्यं तथोत्तमम् ॥ इति । यद्यपि सूत्रे सर्वेषां तुल्यविकल्प इव दृश्यते, तथाऽपि लिखितयोगिनीतन्त्रवचनानुसारेण क्रमं धृत्वा पूर्वाभावे परं ग्राह्यम् । गुणहासानुसारेण भवन्ति शेषव्यवस्थाः । ताः सर्वाः दर्शिताः प्राक् । तस्य आदिमस्य ।।
आदिमप्रतिनिधिः अथ प्रसङ्गात् सूत्रानुक्तं आदिमप्रतिनिधिं तन्त्रान्तरोक्तं दर्शयिप्यामः ।। तच्चोक्तं परमानन्दतन्त्र---
अथानुकल्पाः प्रोच्यन्ते शृणु देवि समाहिता । हेतुद्रव्यं द्वितीयं च तृतीयं चाष्टगन्धकम् ॥ समानं वटकां कृत्वा संशोप्य स्थापयेच्छिवे । अनू घृष्योदके तत्तु योजयेदर्घ्यपात्रके ॥ नारिकेळोदकं कांस्ये ताने क्षीरं तु तक्रकम् । गुडमिश्रं जलं वाऽपि जलं चन्दनमिश्रितम् ॥
मुख्यालाभे चानुकल्पः . . . . . || इति ॥ प्रथम द्वि ती य तृ ती या न् अष्टगन्धं च समानभागं मेळयित्वा व ट कां शुप्कं स्था पितं तज्जलेन घृष्ट्वा अर्घ्य पात्रे मेळयेत् । गुड मि श्र मित्यम्य देहळीदीपकन्यायेन तक्रेण जलेन चान्वयः, “गुडोदकं तथा तक्रं" इति त्रिपुरार्णववचनात् . " गुडमिश्रेण तक्रेण" इति कुलार्णववचनाच्च ॥ ६२ ॥