________________
- सर्वसाधारणक्रमः
दशमः खण्डः --
द्वितीयतृतीयसंपादनप्रकार:
अथ द्वितीयतृतीयसंपादनप्रकारं दर्शयति
好
तदनन्तरं मध्यमयोरस्वयम सुविमोचनम् । उपादि मे नायं नियमः । मध्यमे तु स्वयं संज्ञपने तत्रायं मत्र:उद्बुध्यख पशो त्वं हि नाशिवस्त्वं शिवो ह्यसि । शिवोत्कृत्तमिदं पिण्डं मत्तस्त्वं शिवतां व्रज ॥
इति ॥ ६३ ॥
तदनन्तरं प्रथमसंपादनानन्तरम् । मध्यमयोः द्वितीयतृतीययोः । अस्वयं आत्मभिन्नम् । असु विमोचनं प्राणविमोचनं प्राणमोचनसाधनम् । कुर्यादिति शेषः । द्वितीयतृतीयप्रकृतिभूतपशुप्राणवियोगं स्वयं न कुर्यात् इति फलितोऽर्थः ॥
अथान्यस्य संज्ञतुरभावे किं कार्यं तत्राह- -उपादिम इति । उपादि मस्य द्वितीयस्य असुविमोचनं स्वयमप्यन्याभावे कुर्यात् । तृतीयस्य स्वयमसुविमोचने “ उद्बुध्यस्व " इति मन्त्रं पठित्वा असुविमोचनं कुर्यात् इति भावः ॥
::
द्वितीय प्रकृतिः
द्वितीयतृतीयौ किंसम्बन्धिनौ ग्राह्यौ इत्याकाङ्क्षायां सूत्रे अनुक्तत्वात् तन्त्रान्तरवचनानि लिख्यन्ते । तत्र द्वितीयप्रकृतिः योगिनीतन्त्रे
-३२९
द्वितीयभेदं वक्ष्यामि द्विविधं तच्छृणु प्रिये 1 भूचरं खेचरं चैव पुनस्तद्विविधं स्मृतम् ॥ ग्रामजं वनजं चापि ग्रामजं छागमेषकौ 1
वराहः शल्यको रोजो रुरुर्हरिण एव च ॥
खड्गी गोधा च शशकः दशधा भूचराः स्मृताः ।
रोगिणः कालविहताः परित्याज्या महेश्वरि ||