________________
दशमः खण्डः २ :- सर्वसाधारणक्रमः
आदिम स्वीकारे ग्राह्यग्राह्यद्रव्यविवेकः
शिष्टैः सार्धमितिवाक्येन प्राप्तं आदिमस्वीकारमनूद्य त्याज्यांशं विधत्तेआदिमस्य स्वयं सेवनमागमदृष्ट्या दोषदं
त्याज्यम् ॥ ६१ ॥
आगमाः तन्त्राणि तेषां दृष्ट्या य दोष दं तत् त्या ज्य म् । पूर्वं क्रत्वर्थत्वेन आदिमसेवनं कर्तव्यमिति तन्त्रे प्रतिपादितम् । तथाऽपि यत् दोषदं तत् त्याज्यम् । यथा स्वयं साधकः स्वस्य अधिकारमविचार्य केवलं " आगळान्तं पिबेत् " इति वचनं पुरस्कृत्य वृथा अनुतिष्ठन् दुष्टः पतेदेव न श्रेयसे इति । अत एव कौलोपनिषद्भाष्ये " यावन्न चलते दृष्टिः " " आगळान्तं पिवेच्छिवे " इत्यादितन्त्रवचसां सिद्धिमात्रपरत्वं व्यवस्थापितम् । अयं विषयः विस्तरतः प्राक् निरूपितोऽस्माभिः ॥ ६१ ॥
अथ प्रसङ्गात् आदिमं कीदृशं किंप्रकृतिकं ग्राह्यं इति परिशिष्टाकाङ्क्षायां वचनेन पूरयति---
सानन्दस्य रुचिरस्यामोदिनो लघुनो वार्क्षस्य गौडस्य पिष्टप्रकृतिन अन्धसो वाल्कलस्य कौसुमस्य वा यथादेशसिद्धस्य वा तस्य परिग्रहः ॥ ६२ ॥
३२७
द्रव्ये आनन्द साहित्यं जनकतासंबन्धेन आनन्द विशिष्टत्वं, आनन्दाविर्भा वसाधनं इति यावत् । रुचि र स्य यद्दर्शनमात्रेण मनः प्रसादः तस्य । आ मो दिनः सुगन्धयुक्तस्य । लघु नः धातुवैषम्याजनकस्य । इम एवोक्तगुणाः योगिनीतन्त्रे
अत्यन्तशीघ्रबोधाढ्यं दुष्टामोदविवर्जितम् ।
सुगन्धाढ्यं प्रीतिकरं अविकारकरं तथा । इति ॥
अथ तत्प्रकृतीराह — वा स्येत्यादिना । वार्क्षस्य ताळलाङ्गल्यादिवृक्षोद्भवस्य गौडस्य गुडभवस्य अन्ध सः अन्नप्रकृतिकस्य " भिन्ना स्त्री भक्तमन्धोऽन्नं " .