________________
३२६
परशुरामकल्पसूत्रम्
शिरसा नवहेत् भारं पादुकाभावनापरः । नाभिमानं गुरोः कार्ये लज्जां कुर्यात् कदाचन || गुरुमित्रसुहृदासीदासाद्यान् मानयेत् सदा । वाहनं पादुकां चैव चामरं व्यजनं तथा ॥ ताम्बूलभक्षणं सेव्यभावं गुर्वग्रतः त्यजेत् । पादप्रक्षाळनं दन्तधावनं मलमूत्रयोः ॥ विसर्ग क्षौरमभ्यङ्गं शयनं स्त्रीनिषेवणम् । दुर्वाक्यं रोदनं हास्यं प्रदोद्घाटनं तथा ॥ दूषणं कलहं वादमधोवायुं दुराग्रहम् । अङ्गभङ्गं न कुर्याद्वै गुरुसंमुखतः कचित् ॥ गुरोरासनवस्त्राङ्गच्छायां नोलयेत् कचित् । अधस्थे तु गुरावूर्ध्वं न तिष्ठेन्नाग्रगो भवेत् ॥ न विशेदुत्थिते तस्मिन् स्वाङ्गच्छायां न पातयेत् । गुरुनाम न गृह्णीयात् जपाच्छ्राद्धादृते क्वचित् ॥
I
इत्यादिवचनैः या गुरौ वृत्तिरुक्ता सा गुरुपुत्रे तत्पत्न्यां च कार्या । आदिपदेन गुरोर्मान्याः ये स्वज्येष्ठाश्च ते ग्राह्याः,
गुरुपत्नीसुतज्येष्ठान् गुरुवत् पूजयेत् सदा ॥
इति तन्त्रान्तरवचनात् । स्वज्येष्ठानां मानार्हता कुलार्णवे ऽप्युक्ता -
पूजामध्ये गुरौ ज्येष्ठे पूज्ये वाऽपि समागते ।
नत्वा ब्रूयात् स्थितः शेषमाचरेत् तदनुज्ञया । आसीनः प्रभावेन श्रेष्ठभावमदर्शयन् ॥ इति ॥
ज्येष्ठलक्षणमुक्तं प्राक् । इत्थं चैव सर्वेषु गुरुवद्वर्तितव्यम् । तत्राप्येकयोजनादिद्दूरे दर्शनादि, स्वशिरसि ध्यानादि, काश्चन वृत्तयः गुर्वतिरिक्त हेयाः । यौवनशालिन्यां गुरुपत्न्यां पादस्पर्शपूर्वकाभिवन्दनं निषिद्धम्,
गुरुपत्नी च युवती नाभिवाद्या हि पादयोः ||
इति वचनात् । इत्यलं विस्तरेण ॥ ६० ॥