________________
दशमः खण्डः-सर्वसाधारणक्रमः परावृत्त्यपरभागः । तयोर्मध्यः अतिसूक्ष्मः कालो मध्याह्नः, " प्राणापराह्नमध्याह्नाः" इति कोशात् । यद्वा---दिवसं त्रेधा विभज्य प्राह्लादयः समं ज्ञेयाः । त्रेधा विभागश्च श्रुत्या दर्शितः-.-." ऋग्भिः पूर्वाह्ने दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते ।" इति । अयमेव विभागः प्राह्लादिशब्देन कोशेन दर्शितः । अस्तोत्तरं अर्धयाम उदयात् प्रागर्धयाम चापहाय शेषं यामत्रयं रात्रि पदवाच्यम् । अत एव “रात्रिस्त्रियामा" इति पर्यायोऽपि कोशेऽस्ति । ब्राह्मो मुहूर्तः प्रागुक्तः । शेषं स्पटम् ॥ ५५ ॥
श्रीनित्यपूजायां मपञ्चकप्रतिनिधिग्रहणे हेतवः श्रीनित्यपूजायां मपञ्चकप्रतिनिधिना पूजनं मुख्यालाभे उक्तम् । इदानीं प्रतिनिध्यादरे अन्यानपि हेतूनाह----
व्यवहारदेशस्वात्म्यप्राणोद्वेगसहायामयवयांसि प्रविचार्यैव तदनुकूलः पञ्चमादिपरामर्शः ॥ ५६ ॥
व्य व हारः पूजाऽव्यवहितोत्तरकाले पशुजनैः सह कर्तव्यो लौकिकः आवश्यकः कार्यविशेषः । तत्तद्रव्यसेवनाव्यवहितोत्तरं तद्विकारं दृष्टा पशव एनं दूषयेयुः । कतावावश्यकं रहस्यं भिद्येत । अतः प्रतिनिधिसेवनं इति भावः । एवं यस्मिन् देशे द्रव्यमेवनेन धातुवैषम्यजनितः शरीरविकारः, येन केनचिदपरिहार्यनिमित्तेन तद्देशवास आवश्यकः, तत्र प्रतिनिध्याश्रयः । अयं द्वितीयो हेतु: । किं च समीचीनश्चासावात्मा च स्वात्मा, अत्रात्मा मनः, स्वात्मनो भावः स्वा त्म्य म् । तत्त्वं च सात्त्विकवृत्तिमत्त्वम् । सात्त्विकवृत्तिलक्षणमुक्तं गीतायाम्
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ इति ॥ अयमेवार्थः स्पष्टमुक्तः तन्त्रसारोदाहृतरुद्रयामळवचनेन
कुलद्रव्यं निषेवेत यदा सत्त्वाधिका मतिः । ___अन्यथा सेवनं कुर्वन् पतनायैव कल्पते ॥ इत्यनेन ॥