________________
परशुरामकल्पसूत्रम्
ननु इदं वचनं प्रकृतसूत्रं सामयिकपरमास्तां इति चेत्- न ; सामयिकेषु पञ्चमप्रसक्तेरभावेन ‘पञ्चमादिपरामर्शः ' इति सूत्रविरोधात् । अत एवेमां शङ्कां निराकर्तु प्रथमादिकमित्यनुक्त्वा पञ्चमादीत्युक्तं सूत्रकारण । इत्थं च सात्त्विकान्तःकरणवृत्तिश्च स्वैकवेद्या । एवं सति अन्तःकरणशुद्धिं सम्यग्विचार्य पश्चात् पञ्चमादिमुख्यपरामर्शः इति सिद्धम् । इत्थं च यः पूजाकर्ता तस्यैव सात्त्विकवृत्तिशून्यस्य द्रव्यसेवनं निषेधति शास्त्रं, किमु वक्तव्यं सामयिकस्य तद्विचारे ॥
___ एवं सति इदानीन्तनाः कौलिकामासाः वयं कौलिका इति प्रतिष्ठावन्तः अधिकारम्वरूपं अधिकारगन्धमप्यजानन्तः पानपात्रं कक्षे गृहीत्वा गेहानेहमटन्ति । तांश्च शिष्टाभासाश्च मण्डले प्रवेश्य हविश्शेषं पात्रसङ्ख्यामुल्लङ्घय पाययन्ति । तेभ्यः दातृभ्यश्च भूयो भूयो नमः इत्यलमसदावेशेन ।
__ प्राण स्यो द्वे गः सहनशक्तिः । स हा याः प्रसिद्धाः । आ म यः रोगः । व यां सि बाल्यादि । एतानि सर्वाणि पञ्च मा दि परिग्रहे अनु कू ला नि उत प्रतिकूलानि इति प्रविचार्य सम्यग्विचार्य अनुकूलत्वयाथार्थ्यग्रह एव मुख्यपञ्चमादिपरिग्रहः । अन्यथा प्रतिनिधिनैव नित्यक्रमविमृष्टिः इति भावः ॥ ५६ ॥
सर्वभूताविरोधादय: उपासकधर्माः प्रसङ्गात् पूर्वोक्तशेषान् उपासकधर्मान् वक्तुमारभने--
सर्वभूतैरविरोधः ॥ ५७ ॥ सर्व भू तै र विरोधः स्वमार्गगुप्त्यर्थम् । अन्यथा द्वेषेण एतदीयं दोषं गुप्तरूपेण छद्मना वा दृष्ट्वा सभायां प्रकटं कुर्युः । अविरोध तादृशदोषान्वेषणयत्नं न कुर्युः । दैवात् कदाचित् ज्ञाते वा अविरोधात् सभायां प्राकट्यं न कुर्युरिति भावः ॥ ५७ ॥
__ ननु सर्वभूतैरविरोधेन वर्तमानेऽपि “ मक्षिका व्रणमिच्छन्ति" इति न्यायेन कश्चन दोषान्वेषणन्यायेन प्रवृत्तश्चेत् तत्र किं कार्य ? अत आह -
परिपन्थिषु निग्रहः ॥ ५८ ॥